________________
धमारत्नीयावर्युपेता
श्री. पिण्डनियुक्तिः।
परि०९ वीरगणिकृतटीकाया
अन्त्य
॥१५९॥
. जा जयमाणस्स भवे ।। ६७१ ॥ व्याख्या-या काचित् यतमानस्य-ग्लानाद्यवस्थायां गुरुदोषपरिहारेण लघुदोषासेवां कुर्वतः भवेत् स्यात् विराधना-पथ्यादौ क्रियमाणे पृथिव्याधुपमर्दादि सूत्र-आचारादिकं विधिः-प्रस्तावाद्यथावद् यो विधानं, तयोः समग्रस्य यावद् यः गीतार्थस्येत्यर्थः, सा. विराधना भवति-जायते निर्जराफला-कर्मशोधिका, अध्यात्म-चित्तं तस्य विशोधिःयथौचित्येन प्रवर्त्तनादागद्वेषाभावरूपा निर्मलता तया युक्तः-समन्वितस्तस्य साधोः, इत्युक्ता प्रासैषणा, तदुक्तौ समाप्तैषणा इति गाथार्थः ॥ ६७१ ॥
इति वीरगणिविरचितायां शिष्यहितायां पिण्डनियुक्तिवृत्तौ कारणाख्यामष्टमं द्वारं समाप्तमिति ।। तत्समाप्तौ च । समाप्ता पिण्डनियुक्तिवृत्तिरिति ॥
भो भव्या ! इह हि जन्मजरामरणनीरनिकरपूरिते बहुपकारपरिभवपातालोवणे मोहमहावर्तसंवर्तनदुरुत्तारे कषायवडवानलज्वालाकराले रोगशोकदारिद्रयप्रभृतिकमत्स्यकच्छपमाहादिक्षुद्रसत्त्वसत्त्वसमाकुले विविधव्यसनव्याघ्रसिंहादिश्वपददुःसंचारमार्गे प्रियवियोगाप्रिय. संप्रयोगचलद्वीचिचयनिचिते करणरणरसिकतस्करनिकरनिरुद्धपचारे परमाधार्मिकादिकदर्यमाननारकादिसत्त्वैककालसमुच्छलितकरुणहाहारवघोषाकरे समस्तदुःखनिभृतानि नारकतिर्यग्जन्मनिमजनानि नरामरजन्मोन्मजनानि वाऽनन्तशो यूयं विदधाना संत आधाकर्मादिसप्तचत्वारिंशद्दोषशुद्धिफलकसंघघटितं मनःशुद्धिगाढबंधनबद्धं वाक्शुद्धयुतंभितमहाकूपस्तम्भं कायशुद्धिविस्तारितसितसितपटं निर्लोभतानिर्यामकाधिष्टितं दत्तावधाननररक्षितापायं किमनयोरशुद्धा (!) यन्मिष्टं लभे(भ्येत) तद्भुज्यत' इत्यादिकुतीर्थिकवचननिचयविषय(म). वातायुपसर्गसहस्रोपनिपाताऽक्षोभ्यं श्रीमन्महावीरेण सकलशुद्धप्रवहणनायकेन करुणापरेण समस्तसत्त्वोत्रणाय व्यवस्थापितं पिण्ड
Jain Education Inte
l ®
For Private & Personel Use Only
स
w w.jainelibrary.org