Book Title: Pind Niryukti
Author(s): Manekyashekharsuri, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
परि०९ वीराचार्यकृतटीकाया अन्त्यभागः।.
विधिनोद्धरितस्य गमनमुपभोगस्तदर्थ-तन्निमित्तं द्रष्टः तीर्थकरादिमिरनुज्ञात इत्यर्थः, संयोगः संयोजना-उद्धरितं हि घृतादि येन केनचिद् सुकुमारिकादिना सह ब्रजति तेनैव भोक्तव्यं, येन परिष्ठापनीयाज्जातं प्रायश्चित्तं तत्स्यात् , खलुरलंकारे, अयेति संयोगविशेषः प्रतिपादनानन्तर्यद्योतकः, क्रमः-परिपाटितः कारणानीत्यर्थः, तस्य संयोगस्य अयं “पत्तेय पउरलंमे" इत्यायुक्तरूपो वक्ष्यमाणश्चायं यथा भवति-जायत-इति वक्ष्यमाणश्चायं यथा रसहेउंति विभक्तिव्यत्ययाद्रसहेतुं, सविशेषशोभनत्वपादाननिमित्तं, प्रतिषिद्धस्तीर्थकरादिभिनिषिद्धः संयोगः प्रतीतः, स एव कल्पन्ते कर्तुमुचितः, ग्लानार्थ-रोगनिमित्तं यथा यस्य कस्यचित्साघोः, वा समुच्चये, अभक्तछंद-आहारे अरुचिः स्यादत्रोत्तरत्र च शेषः, तस्येस्यत्रोत्तरत्र च सामर्थ्यगम्य, तथा मुखाय उपचारात् सुखकारिसंयोजिताहाराय शुभस्य वा संयोगजाताय प्रधानाहारस्योचितयोग्यो राजपुत्रादिः स इत्यत्रापि योगः तस्य तथा अभावितः साधुचितेन संयोगरहिताहारेण भोजनकारणेनाद्यपि सम्यगनुद्यातः, यः शिक्षकादिः तस्य, चः समुच्चये, कल्पत इति सर्वत्रानुवृत्तिः, एतेषां हि सालनकादिनैवाहारोरोचत इति गाथाद्वयार्थः ।। ६४०-६४१ ॥ इति वीरगणिविरचितायां शिष्यहितायां पिण्डनियुक्तिवृत्तौ संयोजनाख्यं चतुर्थ द्वारं समाप्तमिति ॥ २ ॥ उक्तं संयोजनाद्वारमथ प्रमाणद्वारमाह
बत्तीसं किर कवला०॥ ६४२ ॥ व्याख्या-द्वात्रिंशत्प्रतीता, किरित्ति किलित्ति मध्यप्रमाणेनैव जघन्यतः स्तोका उत्कृष्टतस्तु बहवोऽपि स्युरिति वाचकः, कवला-प्रासाः आहारो-भाजनं कुक्षिपूरक इति सामीप्योपचारादरभरक एव तृप्तिकारक इत्यर्थः, भणितस्तीर्थकरादिभिरुक्तः, इह द्वारपर्यंत यावद्विशेषभणनं भुक्तैव कस्मिन् दिन इति दृश्य, पुरुषस्य-पुंसः, तथा महिलायाः-स्त्रियः अष्टाविंशति प्रतीताः-भवेति भवेयुः स्युः। कवला-पासाः, नपुंसकस्य चतुर्विशतिस्ते स्युः, परं तस्य प्रायोऽप्रवाजनीयत्वादत्र प्रमाण नोकं, इह य
Jan Education India
For Private & Personal Use Only
T
www.jainelibrary.org |

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396