Book Title: Pind Niryukti
Author(s): Manekyashekharsuri, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 321
________________ Jain Education तकः, अन्यच्चतुर्थमित्यर्थः, अपिशब्दः हुशब्दो वाक्यालङ्कारे, अस्ति-विद्यते, लौकिकं - लोकरूढं नाम - अभिधानं, आत्मनो नाम मातृपित्रादेरभिप्रायेण मयैतस्य बालस्यैतत्सिहकादिनामदातव्यमिति, मनोभिसन्धिनाकृतं विहितं यत्तत्, तदेवोदाहरणेन समर्थयन्नाह यथेत्युदाहरणोपन्यासार्थः, सिंहकदेवदत्तावादिर्यस्य यज्ञदत्तादेर्नाम्नस्तद्यस्य हि सुतादेः पित्रादिसिंहको देवदत्तो वेति नाम ददाति, न तस्य हिनस्तीति सिंहक इति, संस्कृतलक्षणभावेन ककारेण जातुं प्राकृतलक्षणभावेन तु सिंह इति स्याद् एमन्यत्रापि ककारो ज्ञेयः नापि देवा एनं देयासुरिति देवदत्त इति चान्वर्थो नियमेनऽस्ति, तथाभूतस्यापि तथाभूतनामदानादिति, न तावद्गौणं नापि समयकृतं समये अरूढत्वात् नापि तदुभयं गौणत्वसमयकृतत्वयोः पृथग्निदर्शित्वेना विद्यमानत्वात् किं तर्हि ?, गौण समय कुतोभयलक्षणहीनत्वेनोमयातिरिक्तामत्युच्यतेति नाम्नः, कस्यचिद् पुनर्वरप्रदानतया सुरैर्दत्तत्वमङ्गीकृत्य 'देवदत्त' इति नाम्नो गौणत्वं संभव तदपेक्षया गौणं, किमिति नोभयता ? इति उच्यते, न नामदातुरित्थं विवक्ष्या भवति, अथ भवति तर्हि प्रायिकत्वेन नैतद्विवक्षितम्, एवं यज्ञदत्तादिष्वपि भावनीयमिति गाथार्थः || ४ || आह नेदं " गोण्णं समये " ( गा० ६ ) त्यादि नियुक्तिगाथायामुपात्तमिति कुतो माष्यकृताकृतमिति, उच्यते नोपाचमित्यसिद्धं, " वावि " ( गा० ६) शब्दाभ्यां तत्र सूचितत्वात् तथा चाह भाष्यकार: गोण समयाइरितं ॥ भा० ५ ॥ व्याख्या - गौणं पूर्वोक्तं, समयति सूचनात्समयकृतं पूर्वोक्तमेव तयोरतिरिक्तं-भिन्नंउभयातिरिक्ताख्यमित्यर्थः, इदं युक्तं सिंहकादिवक्ष्यमाणं वा डिम्भरूपं द्वयोरप्यात्माभिप्रायकृतत्वेन तुल्यत्वात्, अन्यच्चतुर्थमित्यर्थः, वाविसूचितं-वा-अपिभ्यां ज्ञापितं नामा - अभिधानं ज्ञातव्यमिति शेषः, माकृताभिधानापेक्ष योदाहरणमाह-यथेत्युदाहरणोपन्यासार्थः, पिण्डउति इति पिण्डयतीति पिण्ड इत्येवं क्रियते विधीयते, कस्यचिन्नियतस्य नामं - अभिधानं मनुष्यस्य - मानवस्य, मनुष्यग्रहणं For Private & Personal Use Only परि० ९ वीराचार्यकृतटीकायाराद्यभागः । www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396