SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ क्षमा रत्ननीयावचूर्युपेता परि०९ वीराचार्यकृतटीकायाराद्यभागः। पिण्डनियुक्तिः। ॥१४॥ सर्वस्यापि सचित्तादिवस्तुन उपलक्षणार्थम् , एवं वाऽनन्तरोक्या महास्या गाथायाः पुनरुक्तताऽपि पराहृता भवन्ति, यद्यपि हि प्रायो द्वेऽपि गाथे समानार्थे, तथाप्याद्या क्रमायातस्योभयातिरिक्तस्य प्रतिपादिका, द्वितीया तु नियुक्तिगाथायां नोपाचेति, तस्यापि परेणाविद्यमानतायां शङ्कितायामुत्तरदायिकेऽन्यकर्तृकीयमित्यन्ये, तत्र न पुनरुक्तायामपि कश्चिद्दोषः, केवलमस्याः पातनायामथवा सा इति गाथार्थः ॥ ५॥ ननु समयकृतस्य लौकिकस्य च नाम्नः संज्ञात्वेन निष्पन्नत्वान्नास्ति विशेषः, किमिति मेदेनोक्ते ते ! इति, उच्यते तदुत्पादकयोः समयलोकयोः स्वभावभेदेन तयोरप्युत्पाद्ययोर्मेंदो विवक्षित इति, अथ कस्तयो स्वभावभेद इत्यत आह___तुल्लेऽवि अभिप्पाए । भा० ६ ॥ व्याख्या-तुल्येपि-सामान्येऽप्यतुल्ये न गृह्णात्येवेति अपि शब्दार्थो, यथा तीर्थकरे शंकर | इति नाम, सामायिकानां हि शं करोतीति शकरः, ऐहिकामुष्मिकसुखजनकलक्षणक्रियानिमित्तत्वात् , क्रियानिमित्ताख्यं गौणं नामेदमित्यभिप्रायः, लोकस्य तु तीर्थकरस्याप्यनभ्युपगमात् प्राकृतपुरुषादावप्येतन्नामश्रवणाच्च, संज्ञानामेदमित्यभिप्रायतुल्यता, अभिप्राये नामनिष्पत्तेः कारणभूते संज्ञाकरणलक्षणे उभयेषामपि मनोविकल्पे सामायिकैर्हि समयकृतं, लोकेन तु लौकिकं संज्ञाकरणलक्षणमेकमेव निमित्तमाश्रित्य नाम दत्तमित्यर्थः, समयप्रसिद्धं-सामायिकैः कृतमित्यर्थः, यथा समुद्देशादिकं भोजनदेवादिकं नाम न गृह्णाति-व्यववहारविषयी न करोतीत्यर्थः, सर्ववित्त्वाभावाद्विवक्ष याऽपि सर्वमतानीकाराभावाच्च, लोकः-पृथग्जनः यस्किमपि पुनर्लोकप्रसिद्धं-पृथग्जनख्यातं तन्नाम सिंहकादिकं पुरुषदेवादिकं सामायिका-गणधरादयः उपचरन्ति-व्यवहारविषयं कुर्वन्ति, सर्ववित्वाभावाद्विवक्षया सर्वमताङ्गीकारभावाचेत्यनयोः स्वभावभेद इति गाथार्थः ।। ६ । उक्तो नाम पिण्डः, अथ " गोन्नं समयकयं" (गा०६ )चेत्यादि गाथायां " ठवणापिण्डं अओ वोच्छं" इति चतुर्थपादोद्दिष्ट स्थापनापिण्डमाह ॥१४॥ Jain Education inte For Private Personal Use Only Irww.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy