________________
Jain Education Inter
अक्खे वराड वा० ॥ ७ ॥ व्याख्या - अक्खेति अक्षे वन्दनके पिण्डस्वेन स्थापित इति शेषः, जातित्वादेकवचनं, एवमुत्तत्रापि सद्भावमसद्भावं चाश्रित्य स्थापनापिण्डं विजानीहीति योगः, तथा वराटके - कपर्दके वाशब्दोऽंगुलीयकादेः समुच्चयार्थः, तथा काष्ठे दण्डकादौ, तथा पुस्तेति उल्लिकादौ, वाशब्दः समुच्चये, स चासद्भावं चेत्येवं योज्यः, चित्रकर्म्मणि - चित्रलिखितपुत्तलिकादो, वा शब्दो लेप्योपलयोः समुच्चयार्थः, तत्र लेप्यं-मृन्मयप्रतिमादिः, उपलः - पाषाणप्रतिमादिः तस्मिन् सम्भावंति सतोऽक्षादित्रिकप्रभृतिसता - तेनाकृत्या स्थाप्यमानस्य पिण्डस्य विद्यमानस्य भावोऽस्तित्वमिति हृदयमिति, सद्भावोऽक्षादित्रिकप्रभृतिसङ्घातरूपपिण्डस्याऽऽकृतिः, यद्वा सश्वासौ विद्यमानश्वासौ भावश्वाऽक्षादित्रिकप्रभृतिसङ्घातत्वेनाऽऽकृत्या स्थाप्यमानः पिण्डरूपः पदार्थः, स पूर्वोक्चैव पिण्डस्याऽऽकृतिस्तं, तथा अपभावेत्ति एकारस्य द्वितीयैकवचनार्थत्वात्सद्भावः, पूर्वोक्काया आकृतेरभावात्पिण्डस्यान्राकृतिः, उक्तं च "लेप्पगहत्थीत्थिति एस सम्भाविया भवे ठवणा होइ असम्भावे पुण इत्थित्ति निरागई अक्खो ॥ १ ॥ " इत्यादि, तं आश्रित्येति शेषः, स्थापनं- स्थापनेत्यक्षादौ पिण्डोऽयमिति अध्यारोपस्तया पिण्डः सः, यद्वा विषयविषयिणोरक्यात् स्थापनाया विषयभूतोऽक्षादिरेव स्थापनेति, स्थापना चासौ पिण्डश्च सः, स्थाप्यत इति स्थापनेति, पिण्डोऽयमिति विकल्पितोऽक्षादिरेव समासोऽनन्तरोक्तोऽवस्थाप्यतेऽस्मिन्निति स्थापनेति, पिण्डोऽयमिति मनोविकल्पस्य विषयभूतोऽक्षादिरेव समासोऽनन्तरोक्तवत्तं विजानीहि बुध्यस्वेति गाथार्थः ॥ ७ ॥ अत्रैव विषयविभागमाह
इक्को उ अस भावे० ॥ भा० ७ ॥ व्याख्या - एकः केवलोऽक्षो वराटकोऽङ्गुलीयकादिः, वेति चित्रादीनां पारिशेष्याल्लभ्यतेपिण्डस्वेन स्थापित इति प्रक्रमः, तुशब्दममे व्याख्यास्यामः, असद्भावे पूर्वोक्ते, आकृतेरभावात्परमाण्वादयस्तु न विवक्षिताः, स्थापनापिण्ड इति सर्बत्र प्रक्रमः, भवतीति सर्वत्रयोगः, तथा त्रयाणां - त्रिसङ्ख्यानां प्रत्येकं प्रक्रान्तानामक्षकपर्दाङ्गुलीयकादीनाम्मध्यात्,
For Private & Personal Use Only
परि० ९ वीराचार्यकृत टीका
याराद्यभागः ।
www.jainelibrary.org