Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri,
Publisher: Bhadrankarsuri
View full book text
________________
श्री मौनएकादशी
पर्व
व्याख्यान
प्रणीतं लोकोत्तरस्वरूपमयं चैकादशीवर्णनं निशम्य श्रीमुकुन्दो जिनं प्राह-"केनासौधनः प्राक् समाराधितः?" आप्तो हरिं प्रति सुव्रतश्रेष्ठिनः संबन्धं जगौ, तद्यथा
धातकीखण्डे विजयपत्तने राज्ञा दत्तसंमान इभ्यपङ्क्तिपुरोगः सूरश्रेष्ठयभूत् । तस्य सुशीला मूग्मती कान्ता । एकदेभ्यः सुखसुप्तो निद्रान्ते इत्यचिन्तयत्-"प्राकपुण्यपचेलिमभरेण सौख्यसमनुगतवासरान् गमयामि, परं प्रेत्यहितावहं नकिश्चित्करोमि, तद्विना सर्व निरर्थकं" | चिन्तयतीति श्रेष्ठीशे मानण्डोदयोऽभवत् । प्रातः श्रीगुरु वन्दितु प्रययौ । गुरुभिर्धर्मदेशना प्रारब्धा- .
आलस्स १ मोह २ वन्ना ३ थंभा ४ कोहा ५ पमाय ६ किविणत्ता ७।
भय ८ सोगा ९ अन्नाणा १० वक्खेव ११ कुरुहणा १२ रमणा १३ ॥१॥ इति त्रयोदश काठिया (कष्टा) स्त्याज्याः । ये न त्यजन्ति ते नरकं प्राप्नुवन्ति । यतः
पणकोदि अडसय (ट्ठि) लक्खा नवनवइसहस्सपंचसया ।
चुलसी अहोय नरए अपइट्ठाणम्मि (से) वाही ॥१॥ हे इभ्येश ! श्वभ्रादिदुःखत्यागार्थ नित्यं धर्मो विधेयः । अचिन्त्यो महिमा पुण्यस्य । यतः
भरहे य के जीवा मिच्छादिट्ठी य भद्दवा भावा । ते मरिऊण नवमे वरिसम्मि हुति केवलिणो ॥१॥
॥१६॥
Jain EducationPSonal
For Personal Private Use Only
naw.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46