Book Title: Panchastikaya
Author(s): Kundkundacharya,
Publisher: Shrimad Rajchandra Ashram
View full book text
________________
पचास्तिकायः ।
यस्य न विद्यते रागो द्वेषो मोहो वा सर्वद्रव्येषु । नास्रवति शुभमशुभं समसुखदुःखस्य भिक्षोः ॥ १४२ ॥
यस्य रागरूपो द्वेषरूपो मोहरूपो वा समग्रपरद्रव्येषु न हि विद्यते भावः तस्य निर्विकारचैतन्यत्वात्समसुखदुःखस्य भिक्षोः शुभमशुभश्च कर्म नास्रवति । किन्तु संव्रियंत एव । तदत्र मोहरागद्वेषपरिणामनिरोधो भावसंवरः । तन्निमित्तः शुभाशुभकर्मपरिणामनिरोधो योगद्वारेण प्रविशतां पुद्गलानां द्रव्यसंवर इति ॥ १४२ ॥
विशेषेण संवरस्वरूपाख्यानमेतत् ;
जस्स जदा खलु पुण्णं जोगे पावं च णत्थि विरदस्स ।
संवरणं तस्स तदा सुहासुहकदस्स कम्मस्स ॥ १४३ ॥ यस्य यदा खलु पुण्यं योगे पापं च नास्ति विरतस्य । संवरणं तस्य तदा शुभाशुभकृतस्य कर्मणः ॥ १४३ ॥
यस्य योगिनो त्रिरतस्य सर्वतो निवृत्तस्य योगे वाङ्मनः कायकर्मणि शुभपरिणामरूपं विद्यते । स कः ? रागो दोसो मोहो व जीवस्य शुद्धपरिणामात् परमधर्म लक्षणाद्विपरीतो रागद्वेषपरिणामो मोहपरिणामो वा । केषु विषयेषु ? सव्वदव्वेसु शुभाशुभसर्वद्रव्येषु । णासवदि सुहं असुह नास्रवति शुभाशुभकर्म । कस्य ? भिक्खुस्स तस्य रागादिरहितशुद्धोपयोगेन तपोधनस्य । कथंभूतस्य ? समसुदुक्खस्स समस्त शुभाशुभ संकल्परहितशुद्धात्मध्यानोत्पन्न परम सुखामृततृप्तिरूपैका कारसमरसीभावबलेन अनभिव्यक्तसुखदुःखरूपहर्षविषादविकारत्वात्समसुखदुःखत्येति । अत्र शुभाशुभसंवरसमर्थः शुद्धोपयोगो भावसंवरः भावसंवराधारेण taarकर्म निरोधो द्रव्यसंवर इति तात्पर्यार्थः ॥ १४२ ॥ अथायोगिकेवलिजिन गुणस्थानापेक्षया निरवशेषेण पुण्यपापसंवरं प्रतिपादयति; -जस्म यस्य योगिनः । कथंभूतस्य ? विरदस्स
२०७
द्वेष: । द्वेषभाव | वा ] अथवा [ मोहः ] तत्वोंकी अश्रद्धारूप मोह [ न विद्यते ] नहीं है [ "तस्य " ] उस [ समसुखदुःखस्य ] समान सुखदुःख वाले [ भिक्षोः ] महामुनिके [ शुभ] शुभरूप [ अशुभं ] पापरूप पुद्गलद्रव्य [ न आस्रवति ] mariant प्राप्त नहीं होता । भावार्थ - जिस जीवके राग द्वेष मोहरूप भाव पर - द्रव्यों में नहीं है उस ही समरसीके शुभाशुभ कर्मास्रव नहीं होता । उसके संवर ही होता है । कारण रागद्वेष- मोहपरिणामोंका निरोध भावसंवर कहलाता है । उस भावसंवर के निमित्तसे योगद्वारों से शुभाशुभरूप कर्मणाओं का निरोध होना द्रव्यसंवर है ॥ १४२ ॥ आगे संवरका विशेष स्वरूप कहते हैं; - [ खलु यदा ] निश्चय से जिस समय [ यस्य ] जिस [विरतस्य ] परद्रव्यत्यागो के [ योगे ]
इस
१ संवरो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294