Book Title: Panchastikaya
Author(s): Kundkundacharya, 
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 256
________________ पञ्चास्तिकायः । २१९ दर्शनज्ञानसमग्रं ध्यानं नो अन्यद्रव्यसंयुक्तं । जायते निर्जराहेतुः स्वभावसहितस्य साधोः ॥१५२।। एवमस्यं खलु भावमुक्तस्य भगवतः केवलिना स्वरूपतृप्तत्वाद्विश्रान्तसुखदुःखकर्मविपाककृतविक्रियस्य प्रक्षीणावरणत्वादनन्तज्ञानदर्शनसंपूर्णशुद्धज्ञानचेतनामयत्वादतीन्द्रियत्वाचान्यद्रव्यसंयोगवियुक्तं शुद्धस्वरूपे विचलितचैतन्यवृत्तिस्वरूपत्वात्कथश्चिद्ध्यान स्वरूपं कथयति;-'दसण" इत्यादि पदखंडनरूपेण व्याख्यानं क्रियते-दसण णाण दर्शनज्ञानाभ्यां कृत्वा समग्गं परिपूर्ण । किं । झाणं ध्यानं । पुनरपि किंविशिष्टं ? णो अण्णदव्वसं जुत्तं अन्यद्रव्यसंयुक्तं न भवति । इत्थंभूतं ध्यानं जायदि णिज्जरहेदू निर्जराहेतुर्जायते । कस्य ? सहावसहिदस्स साहुस्स शुद्धस्वभावसहितस्य साधोरिति । तथाहि । तस्य पूर्वोक्त. भावमुक्तस्य केवलिनो निर्विकारपरमानंदै कलझणस्वात्मोत्थसुखतृपत्वाद्वथावृत्तहर्षविषादरूपसांसारिकसुखदुःखविक्रियस्य केवलज्ञानदर्शनावरणविनाशादसहायकेवलज्ञानदर्शनसहितं सहजशुद्धचैतन्यपरिणतत्वादिन्द्रियव्यापारादिवहिव्यालंबनाभावाच्च परद्रव्यसंयोगरहितं स्वरूपनिश्चलत्वादविचलितचैतन्य वृत्तिरूपं च यदात्मनः स्वरूपं तत्पूर्वसंचितकर्मणां ध्यान कार्यभूतं स्थितिविनाशं गलनं च दृष्ट्वा निर्जरारूपध्यानस्य कार्यकारणमुपचर्योपचारेण ध्यानं भण्यत इत्यभिप्रायः । अत्राह शिष्यः । इदं पर दव्यालंबनरहितं ध्यानं केवलिनां भवतु । कस्मात ? केवलिनामुपचारेण ध्यानमिति वचनात् । चारित्रसारादौ ग्रन्थे भणितमास्ते । छद्मस्थतपोधनाः द्रव्यपरमाणुं भावपरमाणुं वा ध्यात्वा केवलज्ञानमुत्पादयंति तत्परद्रव्यालंबनरहितं कथं घटत इति । परिहारमाह । द्रव्यपरमाणुशब्देन द्रव्यसूक्ष्मत्वं ग्राह्यं भावपरमाणुशब्देन च भावसूक्ष्मत्वं न च पुद्गलपरमाणुः । इदं व्याख्यानं सर्वार्थसिद्धिटिप्पणके भणितमास्ते। अस्य संवादवाक्यस्य विवरणं क्रियते । द्रव्यशब्देनात्मद्रव्यं ग्राह्यं तस्य तु परमाणुः। परमाणुरिति कोर्थः ? रागाधुपाधिरहिता सूक्ष्मावस्था । तस्याः सूक्ष्मत्वं कथमिति चेत् ? निर्विकल्पसमाधिविषयादिति द्रव्यपरमाणुशब्दस्य व्याख्यानं । भावशब्देन तु तस्यैवात्मद्रव्यस्य स्वसंवेदनज्ञानपरिणामो प्रायः तस्य भावस्य परमाणुः । यथार्थ वस्तुको सामान्य देखने और विशेषतापूर्वक जाननेसे परिपूर्ण [ ध्यानं ] परद्रव्यचिन्ताका निरोधरूप ध्यान [ निर्जराहेतुः ] कर्मबन्धस्थितिकी अनुक्रम परिपाटीसे खिरनेका कारण [ जायते ] होता है । यह ध्यान किसके होता है ? [ स्वभावसहितस्य साधोः ] आत्मीक स्वभावसंयुक्त साधु महामुनिके होता है । यह ध्यान कैसा है ? [ नो अन्यद्रव्यसंयुक्तं ] परद्रव्य संबंध से रहित है। भावार्थ-जब यह भगवान् भावकर्ममुक्त केवल अवस्थाको प्राप्त होता है तब निजस्वरूपमें आत्मीक सुखसे तृप्त होता है । इसलिये कर्मजनित सुखदुःख विपाकक्रियाके केवलिनः, २ रहितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294