________________
पञ्चास्तिकायः ।
२१९
दर्शनज्ञानसमग्रं ध्यानं नो अन्यद्रव्यसंयुक्तं ।
जायते निर्जराहेतुः स्वभावसहितस्य साधोः ॥१५२।। एवमस्यं खलु भावमुक्तस्य भगवतः केवलिना स्वरूपतृप्तत्वाद्विश्रान्तसुखदुःखकर्मविपाककृतविक्रियस्य प्रक्षीणावरणत्वादनन्तज्ञानदर्शनसंपूर्णशुद्धज्ञानचेतनामयत्वादतीन्द्रियत्वाचान्यद्रव्यसंयोगवियुक्तं शुद्धस्वरूपे विचलितचैतन्यवृत्तिस्वरूपत्वात्कथश्चिद्ध्यान
स्वरूपं कथयति;-'दसण" इत्यादि पदखंडनरूपेण व्याख्यानं क्रियते-दसण णाण दर्शनज्ञानाभ्यां कृत्वा समग्गं परिपूर्ण । किं । झाणं ध्यानं । पुनरपि किंविशिष्टं ? णो अण्णदव्वसं जुत्तं अन्यद्रव्यसंयुक्तं न भवति । इत्थंभूतं ध्यानं जायदि णिज्जरहेदू निर्जराहेतुर्जायते । कस्य ? सहावसहिदस्स साहुस्स शुद्धस्वभावसहितस्य साधोरिति । तथाहि । तस्य पूर्वोक्त. भावमुक्तस्य केवलिनो निर्विकारपरमानंदै कलझणस्वात्मोत्थसुखतृपत्वाद्वथावृत्तहर्षविषादरूपसांसारिकसुखदुःखविक्रियस्य केवलज्ञानदर्शनावरणविनाशादसहायकेवलज्ञानदर्शनसहितं सहजशुद्धचैतन्यपरिणतत्वादिन्द्रियव्यापारादिवहिव्यालंबनाभावाच्च परद्रव्यसंयोगरहितं स्वरूपनिश्चलत्वादविचलितचैतन्य वृत्तिरूपं च यदात्मनः स्वरूपं तत्पूर्वसंचितकर्मणां ध्यान कार्यभूतं स्थितिविनाशं गलनं च दृष्ट्वा निर्जरारूपध्यानस्य कार्यकारणमुपचर्योपचारेण ध्यानं भण्यत इत्यभिप्रायः । अत्राह शिष्यः । इदं पर दव्यालंबनरहितं ध्यानं केवलिनां भवतु । कस्मात ? केवलिनामुपचारेण ध्यानमिति वचनात् । चारित्रसारादौ ग्रन्थे भणितमास्ते । छद्मस्थतपोधनाः द्रव्यपरमाणुं भावपरमाणुं वा ध्यात्वा केवलज्ञानमुत्पादयंति तत्परद्रव्यालंबनरहितं कथं घटत इति । परिहारमाह । द्रव्यपरमाणुशब्देन द्रव्यसूक्ष्मत्वं ग्राह्यं भावपरमाणुशब्देन च भावसूक्ष्मत्वं न च पुद्गलपरमाणुः । इदं व्याख्यानं सर्वार्थसिद्धिटिप्पणके भणितमास्ते। अस्य संवादवाक्यस्य विवरणं क्रियते । द्रव्यशब्देनात्मद्रव्यं ग्राह्यं तस्य तु परमाणुः। परमाणुरिति कोर्थः ? रागाधुपाधिरहिता सूक्ष्मावस्था । तस्याः सूक्ष्मत्वं कथमिति चेत् ? निर्विकल्पसमाधिविषयादिति द्रव्यपरमाणुशब्दस्य व्याख्यानं । भावशब्देन तु तस्यैवात्मद्रव्यस्य स्वसंवेदनज्ञानपरिणामो प्रायः तस्य भावस्य परमाणुः । यथार्थ वस्तुको सामान्य देखने और विशेषतापूर्वक जाननेसे परिपूर्ण [ ध्यानं ] परद्रव्यचिन्ताका निरोधरूप ध्यान [ निर्जराहेतुः ] कर्मबन्धस्थितिकी अनुक्रम परिपाटीसे खिरनेका कारण [ जायते ] होता है । यह ध्यान किसके होता है ? [ स्वभावसहितस्य साधोः ] आत्मीक स्वभावसंयुक्त साधु महामुनिके होता है । यह ध्यान कैसा है ? [ नो अन्यद्रव्यसंयुक्तं ] परद्रव्य संबंध से रहित है। भावार्थ-जब यह भगवान् भावकर्ममुक्त केवल अवस्थाको प्राप्त होता है तब निजस्वरूपमें आत्मीक सुखसे तृप्त होता है । इसलिये कर्मजनित सुखदुःख विपाकक्रियाके
केवलिनः, २ रहितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org