Book Title: Panchastikaya
Author(s): Kundkundacharya,
Publisher: Shrimad Rajchandra Ashram
View full book text
________________
श्रीमद्राजचन्द्र जैनशास्त्रमालायाम् ।
तथा चोक्तम् - " अंजवि तियरणसुद्धा, अप्पा झोएवि लहई इंदतं । लोयंतियदेवत्तं तत्थ चुया णिव्बुदिं जंति" | अंतो णत्थि सुईणं कालो थोओ वयं च दुम्मेहा । तण्णवरि सिक्खियच्वं जं जरमरणं खरं कुणई" ॥ १४६ ॥ इति निर्जरापदार्थव्याख्यानं समाप्तम् ।
२१२
गाणिस्स तं अप्पसहावविदे ण हु मण्णइ सो दु अण्णाणी" "अज्जवि तियरणसुद्धा अप्पा झाएहहि इंदत्तं लोयंतियदेवत्तं तत्थ चुदा णिव्वुदिं जंति” । तत्र युक्तिमाह । यद्यद्यकाले यथाख्यातसंज्ञं निश्चयचारित्रं नास्ति तर्हि सरागचारित्रसंज्ञमपहृत संयममाचरंतु तपस्विनः । तथा चोक्तं तवानुशासनध्यानप्रथे "चरितारो न संत्यद्य यथाख्यातस्य संप्रति । तत्किमन्ये यथाशक्तिमाचरंतु तपोधनाः” । यच्चोक्तं सकलश्रुतधारिणां ध्यानं भवति तदुत्सर्गवचनं, अपवादव्याख्याने तु पंचसमितित्रिगुप्तिप्रतिपादकश्रुतिपरिज्ञानमात्रेणैव केवलज्ञानं जायते, यद्येवं न भवति तर्हि " तुसमासं घोसंतो सिवभूदी केवली जादो" इत्यादि वचनं कथं घटते ? तथा चोक्तं चारित्रसारादिप्रथे पुलाका दिपंच निर्प्रथव्याख्यानकाले । मुहूर्तादूर्ध्वं ये केवलज्ञानमुत्पादयंति ते निर्ग्रथा भण्यंते क्षीणकषायगुणस्थान वर्तिनस्तेषामुत्कृष्टेन श्रुतं चतुर्दशपूर्वाणि जघन्येन पुनः पंचसमितित्रिगुप्तिसंज्ञा अष्टौ प्रवचनमातरः । यदप्युक्तं वज्रवृषभनाराचसंज्ञप्रथम संहननेन ध्यानं भवति तदप्युत्सर्गवचनं अपवादव्याख्यानं पुनरपूर्वादिगुणस्थानवर्तिनां उपशमक्षपकयोर्यच्छुकुध्यानं तदपेक्षया स नियमः अपूर्वादधस्तनगुणस्थानेषु धर्मध्याने निषेधकं न भवति । तदप्युक्तं तत्रैव तत्त्वानुशासने “ यत्पुनर्वज्रकायस्य ध्यानमित्यागमे वचः । श्रेण्योर्ध्यानं प्रतीत्योक्तं तत्राधस्तान्निषेधकं " एवं स्तोकश्रुतेनापि ध्यानं भवतीति ज्ञात्वा किमपि शुद्धात्मप्रतिपादकं संवरनिर्जराकरणं जरमरणहरं सारोपदेशं गृहीत्वा ध्यानं कर्तव्यमिति भावार्थः । उक्त च । "अंतो णत्थि सुदीणं कालो थोओ वयं च दुम्मेहा । तण्णवरि सिक्खियव्वं जं जरमरणं खयं कुइ" ।। १४६ ।। एवं नवपदार्थप्रतिपादक द्वितीय महा धिकार मध्ये निर्जराप्रतिपादकमुख्यतय । गाथायेणाष्टमतराधिकारः समाप्तः ॥ अथ निर्विकारपरमात्मसम्यकश्रद्धानज्ञानानुष्ठानरूपनिश्चय
गर्भित ध्यानका अनुभवी है, इस कारण परमात्मपदको पाता है । इस प्रकार निर्जरा पदार्थका व्याख्यान पूरा हुवा || १४६ ॥ अब बंध पदार्थका व्याख्यान किया जाता है ।
१ अद्यापि त्रिकरणशुद्धा आत्मानं ध्यात्वा लभन्ते इन्द्रत्वम् । लौकांतिकदेवत्व तत्र च्युना निर्वृतिं यान्ति ॥ १॥
Jain Education International
२ अन्तो नास्ति श्रुतीनां कालः स्तोको वयं च दुर्मेधाः ।
तत् एव शिक्षितव्यं यत् जरामरणक्षयं करोति ॥२॥
३ जो कोई कहै कि इस वर्तमान कालमें ध्यान नहीं होता उसको इन ऊपर लिखी दो गाथाओंसे अपना समाधान करना चाहिये ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294