________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे
सूत्रम् — जे भिक्खू अंगादाणं तेल्लेण वा घएण वा वसाए वा नवणीण वा अभंगेज्ज वा मक्खेज्ज वा, अभंगतं वा मक्तं वा साइज्जइ ॥ सू० ४ ॥
छाया -यो भिक्षुः अङ्गादानं तैलेन वा घृतेन वा वसया वा नवनीतेन वा अभ्य यति अक्षयति, अभ्यंगयन्तं वा प्रक्षयन्तं वा स्वदते ॥ सू० ४ ॥
चूर्णी - 'जे भिक्खू तेल्लेण वा' इति । 'जे भिक्खु' यो भिक्षुः 'अंगादाणं' अङ्गादानं पूर्वोकलक्षणम् ' तेल्लेण वा' तैलेन वा तिलादितैलेन वा 'घरण वा' घृतेन वा 'वसाए वा ' वसा स्निग्धपदार्थजातेन 'णवणीएण वा' नवनीतेन 'मक्खन ' इति प्रसिद्धेन 'अभंगेज्ज वा ' अभ्यङ्गयति मर्दयति 'मक्खेज्ज वा' म्रक्षयति विशेषेण मर्दयति 'अभंगतं वा' अभ्यङ्गयन्तं वा 'मक्खतं वा' प्रक्षयन्तं 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभाग् भवतीति ।
अत्र दृष्टान्तमाह--यथा प्रज्वलिताग्नौ घृतादिना परिषिश्चिते सति असौ प्रज्वलितोऽग्निर्गृहादिकं प्रज्वलयति तथैव अङ्गादानं तैलादिना मर्दकस्य चारित्रं विध्वंसयतीति भावः ॥ सू० ४ ॥
सूत्रम् — जे भिक्खू अंगादाणं कक्केण वा लोद्देण वा पउमचुण्णेण वाहाणेण वा सिणाणेण वा चुण्णेर्हि वा उब्वट्टेइ परिखट्टेइ उब्वतं वा परिवट्टंतं वा साइज्जइ ॥ सू० ५ ॥
छाया - यो भिक्षुः अङ्गादानं कल्केन वा लोघेण वा पद्मचूर्णेन वा स्नानेन वा स्नपनेन वा चूर्णैर्वा वर्णैर्वा उद्वर्तयति, परिवर्त्तयति उद्वर्त्तयन्तं वा परिवर्त्तयन्तं वा स्वदते ॥ सू० ५ ॥
चूर्णी - 'जे भिक्खू अंगादाणं कक्केण वा' इति । 'जे भिक्खू' यो भिक्षुः 'अंगादाणं' अङ्गादानम् 'कक्केण वा, कल्केन वा' कल्कोऽनेक सुगन्धिद्रव्यनिष्पन्न उद्वर्त्तनविशेष:, तेन, 'लोद्देण वा' लोध्रेण वा सुगन्धद्रव्यविशेषेण 'पउमचुण्णेण वा' पद्मचूर्णेन वा सुगन्धिकमलपुष्पचूर्णेन वा 'हाणेण वा' स्नानेन वा सामान्यस्नानेन वा 'सिणाणेण वा' स्नपनेन वा विशेषस्नानेन वा सुगन्धाऽऽमोदभरितजलस्नानेनेत्यर्थः । 'चुण्णेहिं वा' चूर्णैर्वा यवादिपिष्टैः 'वण्णेहिं वा' वर्णैर्वा अबीरादिचूर्णविशेषैः, 'उच्वट्टेइ' उद्वर्त्तयति सामान्यतो मर्दयति 'परिवर' परिवर्तयति विशेषतो मर्दयति, 'उब्वहृतं वा' उद्वर्त्तयन्तं वा 'परिवर्द्धतं वा' परिवर्त्तयन्तं वा 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तार्हो भवतीति ॥ सू० ५ ॥
For Private and Personal Use Only