Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 162
________________ ( ११६ ) स्वसंवेदन भेदरूपं कार्यसमयसारः । तत्रैवा मेदस्वरूपं परमकार्यनिमित्तात् शुभपरिणामास्रवः । ततस्तीर्थकरनामकर्मबंधो भवति । पश्वादभ्युदयपरम्परानिःश्रेयसस्वार्थसिद्धिनिमित्तरूपं भवति । तत आसन्नभव्यस्य दर्शनचारित्रमोहोपशमात् क्षयाद्वा स्वाश्रितस्वरूपनिरूपकं भावनिराकाररूपं सम्यग्द्रव्यश्रतं कारणसमयसारः । तदेकदेशसमर्थो भावश्रुतं वार्यसमयसारः । ततः स्वाश्रितोपादेयमेदरत्नत्रयं कारणसमयसारः । तेषामेकत्वावस्था कार्यसमयसारः । तदेकदेशशुद्धतोत्कर्षमन्तर्मुखाकारं शुद्धसंवेदनं क्षायोपशमिकरूपं । ततः स्वाश्रितधर्मध्यानं कारणसमयसारः । ततः प्रथमशुक्लध्यानं कार्यसमयसारः । ततो द्वितीयशुक्लध्यानाभिधानकं क्षीणकषायस्य द्विचरमसमयपर्यंतं कार्यपरम्परा कारणसमयसारः । एवमप्रमत्तादि क्षीणकषायपर्यंतं समयं समयं प्रति कारणकार्यरूपं ज्ञातव्यम् । तस्माद् घातिक्षय भावमोक्षो भवति । सहजपर मपारिणामिकवशात्क्षायिकानामनंतचतुष्टयप्रकटनं नववललब्धिरूपं जघन्यमध्यमो त्कृष्टपरमात्मा साक्षात्कार्यसमयसार एव भवति । ततो द्रव्यमोक्षो भवति । अनंतरं सिद्धस्वरूपं कार्यसमयसारो भवति । एवमव यवार्थप्रतिपत्तिपूर्विका समुदायार्थप्रतिपत्तिर्भवति इति न्यायादुपादानकारणसदृशं कार्यं भवति । परमचित्कलाभरणभूषितो भवति । सोऽपि भव्यवरपुण्डरीक एव लभते । "खयउवसमियविसोहीं देसण पाउग्ग करणलद्धी य । चारिवि सामण्णा करणं सम्मतचारितं ॥ "

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194