Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
(१४२ ) " दुगर्यकांतमारूढा भावानां स्वार्थिका हि ते । स्वार्थिकाश्च विपर्यस्ताः सकलंका नया यतः " ॥८॥
तत्कथं ! तथाहि---सर्वथैकांतेन सद्रूपस्य न नियतार्थव्यवस्था. (१) संकरादिदोषत्वात् , तथा सद्रूपस्य सकलशून्यताप्रसंगात् . नित्यस्यैकरूपत्वादेकरूपस्यार्थक्रियाकारित्वाभावः . अर्थक्रियाकारित्वाभावे द्रव्यस्याप्यभावः । अनित्यपक्षेपि अनित्यरूपत्वादर्थक्रियाकारित्वामावः (२), अर्थक्रियाकारित्वाभावे द्रव्यस्याप्यभावः । एकस्वरूपस्यैकान्तेन विशेषाभावः सर्वथैकरूपत्वात, विशेषाभावे सामान्य स्याप्यभावः । " निर्विशेष हि सामान्यं भवेत्खरविषाणवत् । सामान्यरहितत्वाच्च विशेषस्तद्वदेव हि" ॥९॥ इति ज्ञेयः । . अनेकपक्षेपि तथा द्रव्याभावो निराधारत्वात् आधाराधेयामावाच । भेदपक्षेपि विशेषस्वभावानां निराधारत्वादर्थक्रियाकारित्वा. भावः, अर्थक्रियाकारित्वामावे द्रव्यस्याप्यभावः । अभेदपक्षेपि सर्वेषामेकत्वम् । सर्वेषामेकत्वेर्थक्रियाकारित्वाभावः । अर्थक्रियाकारित्वाभावे द्रव्यस्याप्यभावः । मव्यस्यैकांतेन पारिणामिकत्वात् द्रव्यस्य द्रव्यांतरत्वप्रसंगात् संकरादिदोषसंमवात् । संकरव्यक्तिकरविरोधवैयधिकरण्यानवस्थासंशयाप्रतिपत्त्यभावाश्चेति । सर्वथाऽभव्यस्यैकान्तेऽपि तथा शून्यताप्रसङ्गात् स्वभावस्वरूपस्यैकान्त संसाराभावः । विभावपक्षेऽपि मोक्षस्याप्यभावः । सर्वथा चैतन्यमेवेत्युक्ते १ यथा सिंहो माणवकः ( माणवको मार्जारः ) २ निरन्वयत्वादित्यपि पाठः॥
Loading... Page Navigation 1 ... 186 187 188 189 190 191 192 193 194