Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
(१११) णमतीति पर्याय इति पर्यायस्य व्युत्पत्तिः । स्वभावलाभादच्युतत्वादस्तिस्वभावः । परस्वरूपेणाभावान्नास्तिस्वभावः । निजनिजनानापर्यायेषु तदेवेदमिति द्रव्यस्योपलम्भान्नित्यस्वभावः । तस्याप्यनेकपर्यायपरिणतत्वादनित्यस्वभावः । स्वभावानामेकाधारत्वादकस्वभावः । एकस्याप्यनेकस्वभावोपलम्भादनकावभावः । गुणगुण्पादिसंज्ञाभेद'दू भेदस्वभावः, संज्ञासंख्यालक्षणप्रयोजनानि (१)। गुणगुण्याघेकस्वभावः । माविकाले परस्वरूपाकारभवनाद् भव्यस्वभावः । कालनयेऽपि परस्वरूपाकारामवनादभव्यस्वभावः । उक्तञ्च,
"अण्णोणं पविसंता दिता उग्गासमण्णमण्णास । .. मेलंतावि य णिचं सगसगभावं ण विजहंति " ॥७॥
पारिणामिकनावप्रधानत्वेन परमस्वभावः । इति सामान्यस्वभावानां व्युत्पत्तिः । प्रदेशादिगुणानां व्युत्पत्तिश्चेतनादिविशेषस्वमावानां च व्युत्पत्तिर्निगदिता।
धर्मापेक्षया (२) स्वभावा गुणा न भवंति । स्वद्रव्यचतुष्टयापेक्षया परस्परं गुणाः स्वभावा भवंति | द्रव्याण्यपि भवति । स्वभावादन्यथाभवनं विभावः । शुद्ध केवलभावमशुद्धं तस्यापि विपरीतम् । स्वभावस्याप्यन्यत्रोपचारादुपच रेस्वभावः । स द्वेधा-कर्मजस्वा. भाविकभेदात् । यथा जीवस्य मूतत्वमचेतनत्वं, यथा सिद्धानां पर. ज्ञता परदर्शकत्वं च। एवमितरेषां द्रव्याणामुपचारो यथासंमवो ज्ञेयः ।
१ गुणगुणोति संज्ञा नाम । गुणअनेक गुणो त्वेक इति संख्याभेदः । सद् द्रव्यलक्षणं । द्रव्याश्रया निगुणागुणाः । २ स्वभावापेक्षया ।
Loading... Page Navigation 1 ... 185 186 187 188 189 190 191 192 193 194