Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
( १३९ )
द्रव्याणि जीवाजीथाः । विशेषसंग्रहभेदको व्यवहारो यथाजीवाः संसारिणो मुक्ताश्च । इति व्यवहारोऽपि द्वेधा ।
ऋजुसूत्रो द्विविधः । सूक्ष्मर्जुसूत्रो यथा -- एकसमयावस्थाची पर्याय: । स्थूलसूत्रो यथा - मनुष्यादिपर्यायास्तदायुः प्रमाणकाल तिष्टति । इति ऋजुसूत्रोऽपि द्वेधा ।
शब्दसमभिरूढैवंभूता नयाः प्रत्येकमेकैके नयाः । शब्दनयो यथा दारा भार्या कलत्रं जलं आपः । समभिरूढनयो यथा, गौः ः पशुः । एवंभूतनयो यथा - इंदतीति इंद्रः । उक्ता अष्टाविंशतिर्नयभेदाः । उपनयभेदा उच्यन्ते ——सद्भूतव्यवहारो द्विधा । शुद्धसद्भूतव्यवहारो यथा— शुद्धगुणशुद्धगुणिनोः शुद्ध ( १ ) पर्यायशुद्धपर्यायिणोर्भेदकथनम् । अशुद्धसद्भूतव्यवहारो यथाऽशुद्धगुणाशुद्धगुणिनोरशुद्धपर्याय शुद्रपर्यायणोर्भेदकथनम् । इति सद्भूतव्यवहारोपि द्वेधा ।
- अद्भूतव्यवहारस्त्रेधा । स्वजात्यसद्भूतव्यवहारो यथा- परमाणुर्बहुप्रदेशीति कथनमित्यादि । विजात्यसद्भूतव्यवहारो यथा मूर्त मतिज्ञानं यतो मूर्त्तद्रव्येण जनितम् । स्वजातिविजात्य सद्भूतव्यवहारो यथा ज्ञेये जीवेजीवे ज्ञानमिति कथनं ज्ञानस्य विषयात् । इत्यसद्भूतव्यवहारस्त्रेधा ।
उपचरितासद्भूतव्यवहारस्त्रेधा । स्वजात्युपचरितासद्भूतव्यवहारो यथा - पुत्रदारादि मम । विजात्युपचरितासद्भूतव्यवहारो यथा वस्त्राभरणहेमरत्नादि मम । स्वजातिविजात्युपचरिता सद्भूतव्यवहारो
१ सिद्धपर्यायापन्न जीवस्य ।
Loading... Page Navigation 1 ... 183 184 185 186 187 188 189 190 191 192 193 194