SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ( १३९ ) द्रव्याणि जीवाजीथाः । विशेषसंग्रहभेदको व्यवहारो यथाजीवाः संसारिणो मुक्ताश्च । इति व्यवहारोऽपि द्वेधा । ऋजुसूत्रो द्विविधः । सूक्ष्मर्जुसूत्रो यथा -- एकसमयावस्थाची पर्याय: । स्थूलसूत्रो यथा - मनुष्यादिपर्यायास्तदायुः प्रमाणकाल तिष्टति । इति ऋजुसूत्रोऽपि द्वेधा । शब्दसमभिरूढैवंभूता नयाः प्रत्येकमेकैके नयाः । शब्दनयो यथा दारा भार्या कलत्रं जलं आपः । समभिरूढनयो यथा, गौः ः पशुः । एवंभूतनयो यथा - इंदतीति इंद्रः । उक्ता अष्टाविंशतिर्नयभेदाः । उपनयभेदा उच्यन्ते ——सद्भूतव्यवहारो द्विधा । शुद्धसद्भूतव्यवहारो यथा— शुद्धगुणशुद्धगुणिनोः शुद्ध ( १ ) पर्यायशुद्धपर्यायिणोर्भेदकथनम् । अशुद्धसद्भूतव्यवहारो यथाऽशुद्धगुणाशुद्धगुणिनोरशुद्धपर्याय शुद्रपर्यायणोर्भेदकथनम् । इति सद्भूतव्यवहारोपि द्वेधा । - अद्भूतव्यवहारस्त्रेधा । स्वजात्यसद्भूतव्यवहारो यथा- परमाणुर्बहुप्रदेशीति कथनमित्यादि । विजात्यसद्भूतव्यवहारो यथा मूर्त मतिज्ञानं यतो मूर्त्तद्रव्येण जनितम् । स्वजातिविजात्य सद्भूतव्यवहारो यथा ज्ञेये जीवेजीवे ज्ञानमिति कथनं ज्ञानस्य विषयात् । इत्यसद्भूतव्यवहारस्त्रेधा । उपचरितासद्भूतव्यवहारस्त्रेधा । स्वजात्युपचरितासद्भूतव्यवहारो यथा - पुत्रदारादि मम । विजात्युपचरितासद्भूतव्यवहारो यथा वस्त्राभरणहेमरत्नादि मम । स्वजातिविजात्युपचरिता सद्भूतव्यवहारो १ सिद्धपर्यायापन्न जीवस्य ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy