________________
( १४० ) यथा-देशराज्यदुर्गादि मम । इत्युपचरितासद्भूतव्यवहारस्त्रेधा। '
सहभावा गुणाः (१), क्रमवर्तिनः पर्यायाः। गुण्यते पृथक्तियते द्रव्यं द्रव्यान्तराद्यैस्ते गुणाः । अस्तीत्येतस्य भावोस्तित्वं सद्रूपत्वम् । वस्तुनो भावो वस्तुत्वम् , सामान्यविशेषात्मकं वस्तु । द्रव्यस्वभावो द्रव्यत्वम् । निजनिजप्रदेश समूहेरखण्डवृया स्वभावविभाव. पर्यायान् द्रवति (२) द्रोष्यति अदुद्रवदिति द्रव्यम् । सद्र्व्यलक्षणम् । सीदति स्वकीयान् गुणपर्याय न् व्याप्नोतीति सत् । उत्पादव्ययौव्ययुक्तं सत् । प्रमेयस्य भावः प्रमेयत्वम् । प्रमाणेन स्वपरस्त्ररूपपरि(३)च्छेद्यं प्रमेयम् । अगुरुलघोर्भावोऽगुरुलघुत्वम् । सूक्ष्मा वागगोचराः प्रतिक्षणं वर्तमाना आगमप्रमाणादभ्युपगम्या अगुरुलघुगणाः ।
" सूक्ष्म जिनोदितं तत्वं हेतुभि व हन्यते । आज्ञासिद्धं तु तदू ग्राह्य नान्यथावादिनो जिनाः"॥५॥ प्रदेशस्य भावः प्रदेशत्वं क्षेत्रत्वं अविमागपुद्गलपरमाणुनावष्टब्धम् (४)। चेतनस्य भावश्चेतनत्वम् (५) चैतन्यमनुभवनम् ।
चैतन्यमनुभूतिः स्यात् सा क्रियारूपमेव च । क्रिया मनोवचःकायेष्वन्विता वर्तते ध्रुवम् ॥६॥ अचेतनस्य भावोऽचेतनत्वमचैतन्यमननुभवनम् । मूर्तस्य भावो मूर्तत्वं (६) रूपादिमत्वम् । अमूर्तस्य भावोऽमूर्तत्वं रूपादिरहितत्वम् इति गुणानां व्युत्पत्तिः । स्वभावविभावरूपतया याति पर्येति परि.
१ अन्वायनः। २ प्राप्नोति । ३ ज्ञातुं योग्यम् । ४ व्याप्तं । ५ अनुभूतिर्जीवाज़ोवादिपदार्थानां चेतनमात्रम् । ६ रूपरसगन्धस्पर्शवत्वम्