________________
( १३८ ) अथ पर्यायार्थिकस्य षड् भेदा उच्यन्ते,अनादिनित्यपर्यायार्थिको यथा- पुद्गलपर्यायो नित्यो मेवादिः सादिनित्यपर्यायार्थिको यथा--सिद्धपर्यायो नित्यः । सत्तागौणत्वे. नोत्पादव्ययग्राहकस्वभावो नित्याशुद्धपर्यायार्थिको यथा--समयं समयं प्रति पर्याया विनाशिनः । सत्तासापेक्षस्वभावो नित्याशुद्धपर्यायार्थको यथा--- एकस्मिन् समये त्रयात्मकः (१) प. यायः । कर्मोपाधिनिरपेक्षस्वभावो नित्यशुद्धपर्यायार्थिको यथा सिद्धपर्यायसदृशाः शुद्धाः संसारिणां पर्यायाः । कर्मोणधिसापेक्षस्वभावोऽनित्याशुद्धपर्यायार्थिको यथा--संसारिणामुत्पत्तिमरणे स्तः । इति पर्यायार्थिकस्य षड् भेदाः । ___ नैगमस्त्रेधा भतभाविवर्त्तमानकालभेदात् । अतीते वर्तमानारोपण यत्र स भूतनैगमो यथा-अद्य दीपोत्सवदिन श्रीवर्द्धमानस्वामी मोक्षं गतः । भाविनि भूतवत्कथनं यत्र स भाविनैगमो यथा-अर्हन् सिद्ध एव । कर्तुमारब्धमीनिष्पन्नमनिष्पन्न वा वस्तु निष्पन्नवत्कथ्यते यत्र स वर्तमाननैगमो यथा- ओदनः पच्यते । इति नैगमस्त्रेधा।
संग्रहो द्विविधः । सामान्यसंग्रहो यथा--सर्वाणि द्रव्याणि परस्परमविरोधीनि । विशेषसंग्रहो यथा--सर्वे जीवाः परस्परमविरोधिनः । इति संग्रहोऽपि द्विधा ।
व्यवहारोऽपि द्वधा । सामान्यसंग्रहभेदको व्यवहारो यथा१ पूर्वपर्यायस्य विनाश उत्तरपर्यायस्योत्पादो, द्रव्यत्वेन ध्रवत्वम् ।