Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
(१४४ ) स्वभावः । उत्पादव्ययगौणत्वेन सत्ताग्राहकेण नित्यस्वभावः । केनचित्पर्यायार्थि केनानित्यस्वभावः । भेदकल्पनानिरपेक्षेणैकस्वभावः । अन्वयद्रव्यार्थिकेनैकस्याप्यनेकस्वभावत्वम् । सद्भुतव्यवहारेण गुणगुण्यादिभिर्भेदस्वभावः । भेदकल्पनानिरपेक्षण गुणगुण्यादिभिरभेदस्वभावः । परमभावग्राहकेण भव्याभव्यपारिणामिकस्वभावः । शुद्धाशुद्धपरमभावग्राहकण [१] चेतनस्वभावो जीवस्य । असद्धृतव्यवहारेण कर्मनोकमंगोरपि चेतनस्वभावः । परमभावनाहकेण कर्मनोकर्मणोरचेतनस्वभावः ।।
जीवस्याप्यसद्भूतव्यवहारेणांचेतनस्वभावः । परमभावग्राहकेण कर्मनोकर्मणोर्मूर्तस्वभावः । जीवस्याप्यसद्भतव्यवहारेण मूर्तस्वभाव : परमभावग्राहकेण पुद्गलं विहाय इतरेषाममूर्तस्वभावः [२] । पुद्गलस्योपचारादेवास्यमूर्तत्वम् । परमभावग्रहण कालपुद्गलाणूनामेकप्रदेश स्वभावत्वम् । मेदकल्पनानिरपेक्षेणेतरेषां धर्माधर्माकाशजीवानां चाखण्डत्वादेकप्रदेशत्वं । भेदकल्पनासापेक्षेण चतुर्णामपि नानाप्रदेशस्वभावत्वं । पुद्गलाणोरुपचारतो नानाप्रदेशत्वं न च कालाणोः निग्धरूक्षत्वाभावात् । अरूक्षत्वाचाणोरमूर्तकालस्यैकविंशतितमो भावो न स्यात् । परोक्षप्रमाण पेक्षया सद्भूतव्यवहारेणाप्युपचारेणामूर्तत्वं । पुद्गलस्य शुद्धाशुद्धद्रव्यार्थिकेन विभावखभावत्वम् (३) । शुद्धद्रव्यार्थिकेन शुद्धस्वभावः । अशुद्धद्रव्यार्थिकनाशुद्धस्वभावः । अद्भूतव्यवहारेणोपचरितत्वभावः ॥ ." द्रव्याणां तु यथारूपं तल्लोकेपि व्यवस्थितम् । १ नयेन । २ जीवधर्माधर्माकाशकालानामू ३ जीवपुद्गलयोः
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194