Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 183
________________ ( १३७ ) सूत्रः, शब्दः, सभामेरूढः, एवंभूत इति नव नयाः स्मृताः । उपनयाश्च (१) कथ्यते । नयानां समीरा उपनयाः । सद्भूतव्यवहारः असद्भूतव्यवहार उपचरितासद्भूतव्यवहारश्चत्युपनयास्त्रंधा । इदानीमेतेषां भेदा उच्यते । द्रव्यार्थिकस्य दश भेदाः । कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिको यथा, संसारी जीवः सिद्धसदृक् शुद्धात्मा । उत्पादव्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिको यथा, द्रव्यं नित्यम् । भेदकल्पनानिरपेक्षः शुद्धो द्रव्या र्थिको यथा, निजगुणपर्यायस्वभावाद् द्रव्यमभिन्नम् । कर्मोपाधिसापेक्षोऽशुद्धद्रव्यार्थिको यथा, क्रोधादिकर्मजभाव आत्मा ।. उत्पादव्ययसापेक्षोऽशुद्धद्रव्यार्थिको यथैकस्मिन् समये द्रव्यमुत्पादव्ययध्रौव्यात्मकम् । भेदकल्पनासापेक्षोऽशुद्धद्रव्याधिको यथा. त्मनो दर्शनज्ञानाइयो गुणाः। अन्वयसापेक्षा द्रव्यार्थिको यथा, गु. णपर्यायस्वभावं द्रव्यम् । स्वद्रव्यादि २] ग्राहकद्रव्यार्थिको यथा -स्वद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्ति । परद्रव्यादिग्राहकद्रव्यार्थिको यथा---परद्रव्यादिचतुष्टयापेक्षया द्रव्यं नास्ति (३)। परमभावग्राहकद्रव्यार्थिको यथा--ज्ञानस्वरूप आत्मा । अत्रानेकस्वभावानां मध्ये ज्ञानाख्यः परमस्वभावो गृहीतः । . . इति द्रव्यार्थिकस्य दश भेदाः। १ नयांगं गृहीत्वा वस्तुनोऽनेकविकल्पत्वेन कथनमुपनयः। २ आदिशब्देन स्वक्षेत्रस्वकालस्वभावा ग्राह्याः । ३ सुवर्ण हि रजतादिरूपतया नास्ति रजतक्षेत्रेण रजतकालेन रजतपर्यायेण च नास्ति ।

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194