Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 179
________________ श्रीमद्देवसेनविरचिता आलापपद्धतिः। गुणानां विस्तरं वक्ष्ये स्वभावानां तथैव च । पर्यायाणां विशेषेण नत्वा वारं जिनेश्वरम् ॥ १॥ आलापपद्धतिर्वचनरचनानुक्रमेण नयचक्रस्योपरि उच्यते । सा च किमर्थम् ? द्रव्यलक्षणसिध्द्यर्थं स्वभावसिध्द्यर्थश्च । द्रव्याणि कानि ? जीवपुद्गलधर्माधर्माकाशकालद्रव्याणि । सद् द्रव्यलक्षणम् , उत्पादव्ययध्रौव्ययुकं सत् । इति द्रव्याधिकारः । लक्षणानि कानि ? अस्तित्वं, वस्तु वं, द्रव्यत्वं, प्रमेयत्वं, मगुरुलबुत्वं (१), प्रदेशत्वं (२), चेतनत्वमचेतनत्वं, मूर्तत्वममूर्तत्वं द्रव्याणां दश सामान्यगुणाः । प्रत्येकमष्टावष्टौ सर्वेषाम् । [ एकैकद्रव्ये अष्टौ अष्टो गुणा भवंति । जीवद्रव्ये अचेतनत्वं मूर्त- . चंच नास्ति, पुद्गलद्रव्ये चेतनत्वममूर्तत्वं च नास्ति, धर्माधर्माकाशकालद्रव्येषु चेतनत्वं मूर्तत्वं च नास्ति । एवं द्विद्विगुणवर्जिते भष्टौ अष्टौ गुणाः प्रत्येकद्रव्ये भवंति [३]।] ज्ञानदर्शनसुखवीर्याणि स्पर्शरसगंधवाः गतिहेतुत्वं स्थितिहेतु१ सूक्ष्मा अवाग्गोचरा प्रतिक्षगं वर्तमाना आगमप्रामाण्यादभ्युपगम्या भगुरुलघुगुणाः । २ क्षेत्रत्वं अविभागि पुद्गलपरमाणुनावष्टन्धम् । ३इदि खपुस्तकेऽधिकपाठः।

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194