Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 5
________________ অনেলে সনিসক্সে: संपूज्याः, भवद्भिः कृपया प्रेषिता नन्दनवनकल्पतरोः षड्विंशी शाखा अत्र प्राप्ता अस्ति धन्यवादाः । पञ्चविंशीम् अहं श्रद्धया पठितवान् । (१) जैनदर्शनविषये अहम् इतः पर्यन्तम् अज्ञ आसम्, प्रायः । कल्पतरोर्वाचनेन, विशिष्य तत्र नूतनतया आरब्धस्य "जैनदर्शनसत्कतत्त्वविभावनाः" इत्यस्य स्तम्भस्य पठनेन प्रबोधितः भवामि । पञ्चविंश्यां शाखायाम् अग्रिमा शाखा कलिकालसर्वज्ञविशेषाङ्कः भविष्यति इति उद्धृष्टम् आसीत् । अधुना दीर्घ प्रतीक्ष्यमाणां षड्विंशी प्राप्य अहम् अतीव प्रमुदितः अस्मि । (२) पत्रिकायां गये पद्ये च विशिष्टप्रयोगाः दृश्यन्ते । तेषां क्रोडीकरणेन मामकं संस्कृतज्ञानमपि वर्धमानम् अस्ति । - इति भवदीयः रवीन्द्रः M.A. Ravindran Palghat-678012 (Kcrala) * * * सम्मान्याः, सादरं नमो नमः । अकारणकरुणावरुणालयैर्भवद्भिः कृपया संप्रेषितौ नन्दनवनकल्पतरुः कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविशेष: इति, श्रीहेमचन्द्राचार्यः (जीवनचरितम्) इति च द्वौ ग्रन्थरत्नौ सम्प्राप्तौ । इदं ग्रन्थरत्नद्वयं सहृदयानां कृते परमानन्दकारकमनुसंधित्सूनां कृते बहूपकारकं भविष्यति तत्र नास्ति सन्देहलेशः । - किशोरचन्द्रः पाठकः षड्विंशतितमी शाखा प्राप्ता । कलिकालसर्वज्ञप्रतिभातन्मयं चित्तं सञ्जातम् । कल्पतरुर्विद्वज्जनसङ्के जैनमुनीनां विद्वत्तां नितान्तं ख्यातां करोति । भवतां प्रयत्नेभ्यः शतशोऽभिनन्दनानि.... अन्तत आन्तं कल्पतरुस्तिष्ठेदिति, विद्वज्जनमनांसि चमत्कुर्यात्सदेति च वीतरागाय प्रार्थनम्.... - मुनितीर्थबोधिविजयः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 90