Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 4
________________ प्रास्ताविकम् अमेरिकादेशे छायाचित्रग्राहकौ पिता-पुत्रौ निवसतः स्म । पितुर्नाम एडवर्डवेस्टनः (जन्म ई. १८८६) पुत्रस्य च ब्रेट-वेस्टनः (जन्म ई. १९११) । द्वावपि स्वकार्य प्रति पूर्णतया समर्पितौ छायाचित्रकलायां च निष्णातावास्ताम् । तयोश्छायाचित्राणि वैश्विकस्तरीयपत्रिकासु प्रकाश्यन्ते स्म । अथो ब्रेट-वेस्टनो यदा षष्टिवर्षीयो जातस्तदा तेन स्वीये चत्वारिंशद् वर्षाणां कार्यकाले यान्युत्तमानि छायाचित्राणि गृहीतान्यासन् तेषां सङ्ग्रहात् केवलं श्रेष्ठानि शतं रक्षितानि, शेषाणि च विनाशितानि । ततः सप्ततिवर्षवयसि दशसु वर्षेसु यन्नूतनं कार्यं कृतं ततः पुरातनाच्च शतात् केवलं श्रेष्ठानि शतं रक्षितानि शेषाणि च विनाशितानि । एवमशीतिवर्षवयस्यपि कृतम् । व्यशीतिवर्षवयसि स यदा मृतस्तदा तस्य सङ्ग्रहे केवलं दशाधिकं शतं छायाचित्राणामासीत् - किन्तु सर्वश्रेष्ठानाम् ! कीदृशो विवेकः, कियांश्च कठोरो मानदण्डः स्वकार्येष्वपि ! अथाऽयमेव विवेक एतादृशश्चैव मानदण्डोऽद्याऽपेक्षितोऽस्ति लेखनकार्येऽपि । अद्यत्वे बहवो लेखकम्मन्या जनाः 'मया लिखितं सर्वश्रेष्ठमेवे'ति मन्यमानाः यत् किमपि लिखित्वा प्रकाशयन्ति प्रकाशयितुं वाऽपीच्छन्ति, विनैव केनचित् परीक्षणेन संशोधनेन वा । यदि कश्चन धैर्यमवलम्ब्य तान् निरुणद्धि तदा – 'ईर्ष्यालुरयं, जल्पतु नामे'ति तस्याऽवगणनं क्रियते । एवं च निरर्थकैनिःसारैश्च पुस्तकैः सम्भृताः पुस्तकापणा ग्रन्थालयाश्चाऽपि दरीदृश्यन्ते। विद्वत्त्वं, लेखकत्वं यशश्चाऽपि स्पृहणीयमेव, किन्तु तत्र विवेको, मानदण्डो, जागृतिश्चाऽपि सर्वथा नोपेक्षणीयाः । अन्यथा तीव्रतया बुद्धिमन्तोऽस्माकमागामिनः सन्ताना अस्मान् उपहसिष्यन्ति श्रेष्ठलेखनं चाऽपि नः कदाचिन्नाऽऽदरिष्यन्ते । अतो ये केऽपि वयं यत् किञ्चिदपि लिखेम तत्र सर्वथा विवेकं, कठोरं मानदण्डं, जागृति चाऽपि समाश्रयेम-इति । ज्ञानपञ्चमी, वि.सं. २०६८ कीर्तित्रयी सुरेन्द्रनगरम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 90