Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala
________________
पंचमोऽङ्कः
पञ्चमोऽङ्कः।
(ततः प्रविशति कलहंसः) कलहंसः-(सविषादम् ) अहो ! विकटस्य संसारनाटकस्य परस्परविरुद्धरससमावेशधैरस्यम् ! शृङ्गाराद्भुतरसनिस्यन्दसुन्दरः क नाम स स्वयंवरविवाहमहोत्सवाडम्बरः, क्व चैष परमकरुणरसप्रावीण्यप्रणयपिच्छिलो दुरोदरप्रवर्तितो दमयन्तीमात्रपरिकरस्य देवस्य निषधाविपतेः प्रवासवैशसोपप्लवः ! अहह ! किमिदमनार्योंचितं कम समाचरितमिन्दुकुलकृतावतारेणापि देवेन ! अपि खलु पामरप्रकृतयोऽपि दुरोदरकमणो दुर्विपाकमाकलयन्ति, किं पुनः सर्वकर्माणबुद्धिदेवो निषधाधिपतिः । यदि वा--
कृत्याकृत्यविदोऽपि धर्ममनसोऽप्यन्यायतो विभ्यतोऽप्यश्लाघ्यं पुरुषस्य देववशतस्तत् किश्चिदुज्जम्भते । माहात्म्यं विभवः कला गुणगणः कीर्तिः कुलं विक्रमः सर्वाण्येकपदेऽपि येन परितो भ्रश्यन्ति मूलादपि ॥१॥
न चैतदनात्मनीनमेव कर्म समाचरितं देवेन, किमुतासर्वजनीनम् । न नाम सैंहिकेयोपरागे सवितैव केवलं क्लाम्यति, किन्तु तदधीनाशेषव्यवहारविशेषमखिलमपि काश्यपीवलयम् । किं नु पुरोहितप्रभृतिपौरलोकः शोकाकुलो द्यूत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154