Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१२८ ]
नल: - देव्या अपि दाक्षिण्यमधिमनसमनादधानः कथं
नास्मि खलः ?
नलविलासे
परसम्पत्समुत्कर्षद्वेषो दाक्षिण्यहीनता
द्वयमेतत् खलत्वस्य प्रथमं प्राणितं स्मृतम् ॥ १२॥ अलं कृत्वा वा दुष्टचरितस्मरणम् । कथय तावत् केनेदममङ्गलमावेदितम् ?
कलहंसः -- देव ! एकेन वैदेशिकेन भस्मकनाम्ना खञ्जकुण्टेन मुनिना ।
नलः -- ( सरोचम् ) तं दुरात्मानमिहानयत ।
( ततः प्रविशति नियन्त्रितभुजस्तापसः )
( प्रत्यभिज्ञाय साक्षेपम् ) आः पाप ! स एवासि येनाहमरण्ये प्रतार्य देवीं सन्त्याजितः ।
तापसः -- नाहमरण्ये जगाम, न च त्वां प्रतारयामास ।
नल:-- ( सरोषम् ) अरे ! अपसर्प कर्णेजप ! आद्यून ! ब्रह्मराक्षस ! अतिजाल्म ! अन्नदावानल! साम्प्रतमपि मां प्रतारयसि ? ताडयत भोः ! दुरात्मानमेनं कशाभिः ।
( प्रविश्य कशापाणयस्तापसं ताडयन्ति )
तापसः -- ( साक्रन्दमुच्चैः स्वरम् ) मा मा ताडयत, सत्यमावेदयामि |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154