Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१३२ ]
नलविलासे
(ततः प्रविशति पुष्पवत्या सह राजा भीमरथः ।
सर्वे ससम्भ्रममुत्थाय प्रणमन्ति) राजा-(नलं प्रति) 'यो दमयन्ती परिणेष्यति तस्याहं राज्यभ्रशं करिष्यामि' इति स्वप्रतिज्ञा घोरघोणेन समर्थिता । घोरघोणः पुनः किल कलचुरिपतेटमयन्तीपरिणयनमभिलाषुकस्य चित्रसेनस्य मेषमुखनामा प्रणिधिः । अयमपि घोरघोणशिष्यो लम्बोदरश्चित्रसेनस्यैव कोष्ठकाभिधानश्चर एव ।
कलहंसा-देव ! निषधाधिपते ! तेऽमी चित्रसेनमेषमुख-कोष्ठकाः, यान् मत्तमयूरोद्यानस्थितिदेवो लेखे दृष्टवान् ।
राजा-निषधापते ? परिणतवयसो वयं धर्मकर्माहः । तद् गृहाणेदमस्मदीयं विदर्भाधिराज्यम् ।
नल:-देव ! अहमात्मीयमेव राज्यं कपटकैतवहारितमादास्ये ।
पुष्पवती- 'वच्छ ! एसा दमयन्ती पुणो वि तुह समप्पिदा । ताजं ते पडिहादि तं करिज्जासु ।
नला-अहं देव्या दमयन्त्या पतिव्रताव्रतेनैव क्रीतस्तदतः परं मामनुकूलयन्ती देवी मल्लिका धवलयति, धनसार सुरभयति, मृगाङ्क शिशिरयति । १. वत्स ! एषा दमयन्तो पुनरपि तुभ्यं समर्पिता। ततो यत् ते
प्रतिभाति तत् कुर्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 147 148 149 150 151 152 153 154