SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३२ ] नलविलासे (ततः प्रविशति पुष्पवत्या सह राजा भीमरथः । सर्वे ससम्भ्रममुत्थाय प्रणमन्ति) राजा-(नलं प्रति) 'यो दमयन्ती परिणेष्यति तस्याहं राज्यभ्रशं करिष्यामि' इति स्वप्रतिज्ञा घोरघोणेन समर्थिता । घोरघोणः पुनः किल कलचुरिपतेटमयन्तीपरिणयनमभिलाषुकस्य चित्रसेनस्य मेषमुखनामा प्रणिधिः । अयमपि घोरघोणशिष्यो लम्बोदरश्चित्रसेनस्यैव कोष्ठकाभिधानश्चर एव । कलहंसा-देव ! निषधाधिपते ! तेऽमी चित्रसेनमेषमुख-कोष्ठकाः, यान् मत्तमयूरोद्यानस्थितिदेवो लेखे दृष्टवान् । राजा-निषधापते ? परिणतवयसो वयं धर्मकर्माहः । तद् गृहाणेदमस्मदीयं विदर्भाधिराज्यम् । नल:-देव ! अहमात्मीयमेव राज्यं कपटकैतवहारितमादास्ये । पुष्पवती- 'वच्छ ! एसा दमयन्ती पुणो वि तुह समप्पिदा । ताजं ते पडिहादि तं करिज्जासु । नला-अहं देव्या दमयन्त्या पतिव्रताव्रतेनैव क्रीतस्तदतः परं मामनुकूलयन्ती देवी मल्लिका धवलयति, धनसार सुरभयति, मृगाङ्क शिशिरयति । १. वत्स ! एषा दमयन्तो पुनरपि तुभ्यं समर्पिता। ततो यत् ते प्रतिभाति तत् कुर्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy