________________
सप्तमोऽङ्कः
कलहंसः-साधु देवि ! साधु पतिव्रतानामेष एव वाग्विभवः । देवोऽपि देवीमपहाय किमनुभूतवान् ?
नल:-देवीमपहाय क्रमेणाहम् 'एहि महापुरुष ! त्रायस्व माम्' इति प्रतिमुहुाहरन्तं दवानलज्वालाजटालवपुषमेकमाशीविषमद्राक्षम् ।
सर्व-(सकौतुकम् ) नतस्ततः ।
नल:-ततः स दवानलाकृष्टो मां दृष्टा विकृतरूपं कृतवान् । देवतारूपं च विधाय 'सोऽहं तव पिता महाराजनिषधस्त्वत्कृपया समागतवान' इति व्याहरत् ।
दमयन्ती- 'तदो।
नल:--'मा भैषीरतः परं द्वादशसु वर्षेसु पुनः प्रियादर्शनं ते भविष्यति' इत्यभिधाय तावत् तिरोऽभूत् । ततोऽहं क्रमेण सूपकारवृत्त्या दधिपर्णाभ्यर्ण स्थितवान् ।
(नेपथ्ये) प्रवर्त्यन्तां मङ्गलानि, प्रसाध्यन्तां मौक्तिकस्वस्तिकः प्राङ्गणभुवः, प्रवत्यन्तां सङ्गीतकानि । ननु मनोरथानामप्यभूमिवेत्सायाः प्रिया प्रियप्राप्तिरभूत् ।
__ कलहंसः-(ससम्भ्रमम् ) कथं विदर्भाधिपतिरितोऽभ्येति ?
-
-
-
१. ततः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org