________________
सप्तमोऽङ्कः
[ १३३ कलहंसः-किमतः परं प्रियतममाधीयते देवस्य ?
नल:-कलहंस ! अतः परमपि प्रियमस्ति ? त्वयैव तावद् देवी प्रथममस्मासु परमानुरागमानीता । भवतैव कुसुमाकरोद्याने संघटिता। त्वमेवास्मान् नटकपटधारी ज्ञातवान् किमपरं त्वमेवास्य दमयन्तीसङ्घटनानाढकस्य सूत्रधारः ।
कलहंसा-तथापीदमाशास्यते-- दुरोदरकलङ्कतः कृतविराम चन्द्रोज्ज्वला
मवाप्य निजसम्पदं पदचिन्त्यशमश्रियः । यशोभिरनिशं दिशः कुमुदहासभासः सृजनजातगणनाः समाः परमतः स्वतन्त्रो भव ॥१४॥
(इति निष्क्रान्ताः सर्वे)
। सप्तमोऽङ्कः ॥
इति नलविलासनाटकम् । कृतिरियं रामचन्द्रस्य * ।
* नाटकं समाप्तं । छ । कृतिरियं श्रीहेमचन्द्रसूरिशिष्यश्रीरामचन्द्रसूरिणां ।। छ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org