Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 148
________________ सप्तमोऽङ्कः कलहंसः-साधु देवि ! साधु पतिव्रतानामेष एव वाग्विभवः । देवोऽपि देवीमपहाय किमनुभूतवान् ? नल:-देवीमपहाय क्रमेणाहम् 'एहि महापुरुष ! त्रायस्व माम्' इति प्रतिमुहुाहरन्तं दवानलज्वालाजटालवपुषमेकमाशीविषमद्राक्षम् । सर्व-(सकौतुकम् ) नतस्ततः । नल:-ततः स दवानलाकृष्टो मां दृष्टा विकृतरूपं कृतवान् । देवतारूपं च विधाय 'सोऽहं तव पिता महाराजनिषधस्त्वत्कृपया समागतवान' इति व्याहरत् । दमयन्ती- 'तदो। नल:--'मा भैषीरतः परं द्वादशसु वर्षेसु पुनः प्रियादर्शनं ते भविष्यति' इत्यभिधाय तावत् तिरोऽभूत् । ततोऽहं क्रमेण सूपकारवृत्त्या दधिपर्णाभ्यर्ण स्थितवान् । (नेपथ्ये) प्रवर्त्यन्तां मङ्गलानि, प्रसाध्यन्तां मौक्तिकस्वस्तिकः प्राङ्गणभुवः, प्रवत्यन्तां सङ्गीतकानि । ननु मनोरथानामप्यभूमिवेत्सायाः प्रिया प्रियप्राप्तिरभूत् । __ कलहंसः-(ससम्भ्रमम् ) कथं विदर्भाधिपतिरितोऽभ्येति ? - - - १. ततः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154