Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नलविलासे
मकरिका- 'चिट्ठदु सव्वे वि, पढमं अहं चिदाए पविसिस्सं । न सक्केमि तुम्हाण मरणं पिच्छिदु ।
नलः -- (स्वगतम् ) उक्तं भुजगरूपधारिणा तातेन 'यदि ते स्वरूपेण प्रयोजनं भवति तदा मामनुस्मरेः' । ( पटं प्रावृत्य स्मरणं नाटयति । पुनरात्मानं विलोक्य ) कथं नल एवास्मि जातः ।
1
दमयन्तो - 'भयवं हुयासण | नमो दे । भयवंतो लोकपाला ! कधेहिं एदं मह चरिदं परलोगगयस्स अञ्जउत्तस्स । ( नेपथ्ये )
हा वत्से ! क मामेकाकिनं चरमे वयसि परित्यज्य प्रयासि ? हा हरिणनयणे ! मयंकवयणे ! सिरीससोमाले ! वत्से ! किं अत्तणो मरणेण भीमरहं मारेसि ?
दमयन्ती -- ( आकर्ण्य ) नूणं में वारिदु तादो अंबा य समागच्छदि, ता लहुं पविसेमि । ( चितां प्रदक्षिणीकृत्याधिरोदुमिच्छति )
१२६ ]
·
१. तिष्ठन्तु सर्वेऽपि प्रथममहं चितां प्रवेक्ष्यामि । न शक्नोमि युष्माकं मरणं द्रष्टुम् ।
२. भगवन् हुताशन ! नमस्ते । भगवन्तो लोकपालाः ! कथयतेतम्मम चरितं परलोकगतायायं पुत्राय ।
३. हा ! हरिणनयने ! मृगाङ्कवदने ! शिरीषसुकुमारे ! वत्से ! किमात्मनो मरणेन भीमरथं मारयसि ?
४. नूनं मां वारयितुं तातोऽम्बा च समागच्छति, तल्लघु प्रविशामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154