Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१२४]
नलविलासे
स एव प्रियः प्राप्यते ? तैस्तैः शुभैरशुभैर्वा कर्मभिभिन्नवतिनीसश्चरिष्णवः सर्वे जन्तवः ।
कलहंसः--पान्थ ! नायं तस्यैव प्रियस्य प्राप्त्यर्थं न च धर्मार्थ प्रयत्नः, किन्तु क्षत्रियाचारानुचारार्थ प्रियाप्रियनिवृत्त्यर्थं च।
नल:---(स्वगतम् ) अहो ! कौतुकम् ! एतामहमरण्ये व्यालानां बलिं कृतवान् । इयं पुनर्ममाप्रियनिवृत्त्यथं प्राणान् परित्यजति ।
स्वमेकः पररक्षार्थ विनिहन्ति विपत्तिषु । स्वरक्षार्थ परं वन्यश्चित्रं चित्रा मनोगतिः ॥७॥
दमयन्ती--- 'कपिञ्जले ! उवणेहि हुयासणं जेण चिदं पज्जालेमि।
कपिञ्जला- 'मट्टिणि ! अहं वि हुयासणमणुसरिस्सं ।
दमयन्ती- कपिञ्जले ! मा एवं भण| तए अंबा संधारियव्वा ।
कपिञ्जला- भट्टिणी पुप्फवदी वि तुह मग्गं अणुसरिदुमिच्छदि, परं भट्टा वारेदि । १. कपिञ्जले ! उपनय हुताशनं येन चितां प्रज्वालयामि । २. भत्रि ! अहमपि हुताशनमनुसरिष्यामि । ३. कपिजले ! मैवं भण । त्वयाऽम्बा सन्धारयितव्या। ४. भी पुष्पवत्यपि तव मार्गमनुसरितुमिच्छति, परं भर्ता वारयति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154