Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 140
________________ सप्तमोऽङ्कः [ १२३ कलहंस:--( उपसृत्य ) वैदेशिक ! मणु वहिप्रवेशनिमित्तम् । नलं रन्तुचेतस्तरलमनलं वाऽस्य विरहे सतीभावो यस्यामथ च जगतां विश्रुततमः । इयं सा क्षीराक्षी तदपि निषधक्षोणिपतिना विना दोषोन्मेषादधिवनमपास्ता कथमपि ॥६॥ नल:--आः ! कथमद्य प्रातरेव चण्डालचरितस्य तस्य पापीयसो निषधाभतु रभिधानं खया स्मारितोऽस्मि ! दमयन्ती-(सरोषमात्मगतम्) 'को एस दुम्मुहो अज्जउत्तं निंददि ? (प्रकाशम् ) वइदेसिग ! नाहमरण्णे पइणा परिचत्ता, किन्तु सयं मग्गदो परिभट्ठा। कपिञ्जला--- पहिय ! जं कलहंसो कहेदि तं सच्चं । कलहंसः---निषधाधिपतिरिदानी विपन्न इति श्रूयते । तत इयं देवो चितामधिरोहति । नल:---बाले यस्त्वामेकाकिनीमनिमित्तमरण्ये त्यजति तदर्थमेतत् त्रिलोकीलोचनोत्सवो वपुरग्निसात् क्रियत इति न मे मनसि समीचीनमाभाति । अपि च मुग्धे! किं पावकदग्धः १. क एष दुर्मुख बार्यपुत्रं निन्दति ? वैदेशिक ! नाहमरण्ये पत्या परित्यक्ता, किन्तु स्वयं मार्गतः परिभ्रष्टा । २. पथिक ! यत् कलहंसः कथयति तत् सत्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154