________________
सप्तमोऽङ्कः
[ १२३ कलहंस:--( उपसृत्य ) वैदेशिक ! मणु वहिप्रवेशनिमित्तम् । नलं रन्तुचेतस्तरलमनलं वाऽस्य विरहे
सतीभावो यस्यामथ च जगतां विश्रुततमः । इयं सा क्षीराक्षी तदपि निषधक्षोणिपतिना विना दोषोन्मेषादधिवनमपास्ता कथमपि ॥६॥
नल:--आः ! कथमद्य प्रातरेव चण्डालचरितस्य तस्य पापीयसो निषधाभतु रभिधानं खया स्मारितोऽस्मि !
दमयन्ती-(सरोषमात्मगतम्) 'को एस दुम्मुहो अज्जउत्तं निंददि ? (प्रकाशम् ) वइदेसिग ! नाहमरण्णे पइणा परिचत्ता, किन्तु सयं मग्गदो परिभट्ठा।
कपिञ्जला--- पहिय ! जं कलहंसो कहेदि तं सच्चं ।
कलहंसः---निषधाधिपतिरिदानी विपन्न इति श्रूयते । तत इयं देवो चितामधिरोहति ।
नल:---बाले यस्त्वामेकाकिनीमनिमित्तमरण्ये त्यजति तदर्थमेतत् त्रिलोकीलोचनोत्सवो वपुरग्निसात् क्रियत इति न मे मनसि समीचीनमाभाति । अपि च मुग्धे! किं पावकदग्धः
१. क एष दुर्मुख बार्यपुत्रं निन्दति ? वैदेशिक ! नाहमरण्ये पत्या
परित्यक्ता, किन्तु स्वयं मार्गतः परिभ्रष्टा । २. पथिक ! यत् कलहंसः कथयति तत् सत्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org