Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala
________________
सप्तमोऽङ्कः
[ १२१
पश्य पुरः पुरस्यादवीयसि देशे निकषा सहकारतरुखण्ड तस्याश्चितिर्वर्तते । अपरास्वप्येतासु तिसृषु तस्या एव परिकरलोकः प्रवेक्ष्यति । तदनुजानीहि मां प्राणात्ययसमयप्रवर्त्यमानदानप्रतिग्रहणाथेमुपगन्तुम् ।
राजा-(सविचिकित्समात्मगतम्) अहो! सर्वातिशायी द्विजन्मनां निसर्गसिद्धो लोभातिरेको यदयमन्त्येऽपि वयसि वृथा वृद्धो निधनधनप्रतिमहान विरमति ।
नल:-व्रजस्व सिद्धये ।
ब्राह्मण:-स्वस्ति महाभागाय (इत्यभिधाय मन्दं मन्दं निष्क्रान्तः)
राजा बाहुक ! विप्रलब्धाः केनापि वयं स्वयंवरसमाहानेन । तद् यावत् कोऽप्यस्मानुपलक्षयति तावदित एव स्थानानिवर्तय पताकिनम् ।
नल:--देव ! क्षणमस्मिन्नेव स्थाने श्रमोऽतिवाह्यताम् , यावदहमग्रतो गत्वा सम्यग् निर्णयामि ।
(राजा तथा करोति) (परिक्रम्य विलोक्य) कथमियं देवी प्राणपरित्यागसमयोचितनेपथ्या चिताभ्यणे कपिञ्जलया सह वर्तते ! अयमपि कलहंसोऽसावपि खरमुख इयमपि मकरिका ।
(ततः प्रविशन्ति यथानिर्दिष्टाः सर्वे)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154