Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सप्तमोऽङ्कः
[ ११६
कथश्चन वाजिनोऽधिष्ठितवान् यथा जवेन पवनमपि पराजयन्ते । (सहर्षम् ) चिरादद्य देवी द्रक्ष्यामीति हर्षप्रकर्षण पुलककोरकितगात्रोऽस्मि । (पुनः सविषादम् ) यदि वास्यक्ता यद् विपिने वनेचरघने निद्रालुरेकाकिनी तत् त्यक्त्वापि न जीवितं रहितवानस्मि प्रियप्राणितः । एतेनाद्भुतकीर्तिमुन्नमयता विस्फूर्जितेनोर्जितं वक्त्रं दर्शयितु श्वपाकचरितस्तस्याः कथं स्यां सहः ॥२॥ अपि च
अपकृत्योपकार्येषु ये भवन्त्यर्थिनः पुनः । तेषु मन्ये मनुष्यत्वं विधेर्वार्धकविक्रिया ॥ ३ ॥
राजा-बाहुक ! कचिदपि प्रदेशे पताकिनं विकृत्य मार्गश्रममपनयामः ।
नल:-( विलोक्य साशङ्कम् ) देव ! किमिदं स्वयंवरविधिविरुद्धमतिकरुणमालोक्यते ? तथाहि
आक्रन्दः श्रुतिदुर्भगः प्रतिदिशं बाप्पागण्डस्थलो ___ लोकः सर्वत एष वेषघटना पौरेषु शोकोन्मुखी । विश्रान्ताखिलगीतवाद्यविधयः सङ्गीतशालाभुवो वार्ताक्षिप्तजनस्य पुञ्जिभिरितः पर्याकुला वीथयः ॥४॥
राजा-(विलोक्य) वाहुक ! यथाऽयं मन्दमन्दरुदितः ससंरम्भमितस्ततः परिधावति पौरलोकस्तथा जाने सम्प्रत्येव कोऽपि विपत्स्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154