Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 135
________________ ११८] नलविलासे ( नेपथ्ये ) प्रविशन्ती कैरविणीं सन्ध्यारागानले विरहदुःखात् । कुवलयपतिरयमेष प्रतिषेधुमिवोलकर एति ॥२४॥ राजा-कथमेष बन्दी चन्द्रोदयं पठति ? अमात्य ! त्वं स्वं नियोगमशून्यं कुरु । वयमपि सकलदेवताधिचक्रवर्तिनो भगवतो नाभिनन्दनस्य सन्ध्यासपर्याविधिमनुष्ठातुं प्रतिष्ठामहे। ( इति निष्क्रान्ताः सर्वे ) ॥ षष्ठोऽङ्कः ॥ सप्तमोऽङ्कः। ( ततः प्रविशति रथेन राजा बाहुकश्च ) राजा-बाहुक ! प्रभातप्राया त्रियामिनी । सहस्रांशोर्धाम्नां दिशि दिशि तमोगर्भितमिदं कुलायेभ्यो व्योनि व्रजति कृतनादं खगकुलम् । दवीयस्तामेतान्यपि जहति युग्मानि शनके रथाङ्गानामस्यां सपदि वरदायास्तटभुवि ॥ १ ॥ अपि च यथा पुरः प्राकारनगरागारसन्निवेशाः समुन्मीलन्ति तथा जाने प्राप्तः पताकी कुण्डिनस्य परिसरम् । - नल:-(स्वगतम् ) अहो! दिव्यस्य तेजसः सोऽप्यपूर्वः प्रभावः। स्मरणमन्त्राभिमन्त्रितमात्रोऽपि तातस्तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154