Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 133
________________ ११६ ] नलविलासे . राजा-परा काष्ठामधिरूढवान् करुणो रसः । सपर्णः-देव ! रसप्राणो नाट्यविधिः । वर्णार्थवन्धवैदग्धीवासितान्तःकरणा ये पुनरभिनयेष्वपि प्रबन्धेषु रसमपजहति विद्वांस एव ते न कवयः। न तथा वृत्तवैचित्री श्लाघ्या नाट्ये यथा रसः । विपाककम्रमप्यानमुद्वेजयति नीरसम् ॥ २३ ॥ राजा-(स्मृत्वा ) बाहुक ! 'देवि ! नाहमात्मनो विधातेन कलङ्कयितव्यः' इत्यभिदधानो नल इव लक्ष्यसे । तत् कथय परमार्थ समर्थेय नः प्रार्थनाम् । कस्त्वमसि ? किमर्थं च दुस्थावस्थः.१ (प्रविश्य ) प्रतीहारः-देव ! विदर्भाधिपतिप्रेषितो भद्राभिधानः पुरुषो द्वारि वर्तते । राजा-(ससम्भ्रमम् ) शीघ्र प्रवेशय । प्रतीहारः-यदादिशति देवः । (इत्यभिधाय निष्क्रान्तः । प्रविश्य भद्रःप्रणमति) राजा-भद्र ! किमर्थं भवत्प्रेषणेनास्मान् विदर्भाधिपतिः पवित्रितवान् ? ___भद्रः-महाराज ! भीमरथस्य प्राणेभ्योऽपि प्रिया पुत्री समस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154