Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala
________________
षष्ठोऽङ्कः
[ ११५
याओ ! कधिह अज्जउत्तस्स एदं मह विवसिदं । हा ! अंब पुप्फवदीए ! हा ! ताय भीमरह ! कहिं सि ? देहि मे पडिवयणं । ( लतापाशं कण्ठे बध्नाति )
राजा - ( सरभसमुत्थाय ) भगवति पतिव्रते ! अलमात्मनो विघातेन ।
सपर्णः -- बाले ! किमिदमकृत्याचरणम् १ जीवलक:- आयें ! नाहँसि नवे वयसि दुरात्मनः स्वपतेर्निमित्तमकाण्डे प्राणान् वरित्यक्तुम् ।
नल:-( ससम्भ्रममुच्चैः स्वरम् ) देवि देवि ! अलमलमतिसाहसेन । नार्हसि मामात्मनो वधेन दुरात्मानं कलङ्कयितुम् । अपि च निस्त्रिंशस्य निर्मर्यादस्य पापीयसः पत्या - भासस्य मम कृते वृथा सतीचक्रावतंसमात्मानं व्यापादयसि ।
गन्धारः - ( विलोक्य समयसम्भ्रमम् ) अये पिङ्गल ! पिङ्गल ! छिन्द्धि छिन्द्वि पाशमस्या यावदियमद्यापि श्वसिति । ( पिङ्गलकः सरभसं धावित्वा लतापाशं छिनत्ति । दमयन्ती मूर्च्छिता पतति )
पिङ्गल ! ध्रुवमियमपश्यन्ती प्रियं कापि विपत्स्यते । तदिदानीमुत्पाट्य सार्थवाहाय समर्पयावः ( तथा कृत्वा निष्क्रान्तौ )
Jain Education International
गर्भाङ्कः ॥
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154