Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala

Previous | Next

Page 137
________________ १२० ] नलविलासे ॥ इतः प्रारभ्यन्ते निचितचितयः पश्य भृतकैः प्रयाति प्रत्याशं विषमतमतूर्यध्वनिरितः । द्विजन्मानोऽप्येते निधनधनविच्छेदचकिताः ससंरम्भं धावन्त्यपरिचितशूकास्तत इतः ॥ नलः - देव ! एतं बृद्धब्राह्मणं पृच्छामि । (ततः प्रविशति गृहीतयष्टिर्गमनाकुलचेता वृद्धो ब्राह्मणः ) ( उपसृत्योच्चैः स्वरम् ) आर्यार्य ! ब्राह्मण: - नियोजयतु यजमानः । नलः – वैदेशिकत्वादनभिज्ञोऽस्मि वृत्तान्तस्य तत् कथय किमिदमतितरां करुणम् ? ब्राह्मण: --- महाभाग ! किं कथयामि मन्दभाग्यः १ अकाण्डक्रोधसंरुद्धचेतसा वेधसा सर्व संहारः प्रारब्धोऽद्य विदर्भपतिकुटुम्बस्य | राजा - कथमिव ब्राह्मणः प्राणेभ्योऽपि प्रिया विदर्भभतु रेकैव पुत्री । नलः - (स्वगतम् ) तत् किं देवी विपन्ना ? अतः परमपि विधिर्विकार किं किमपि दर्शयिष्यति ? ( प्रकाशम् ) तत् कि तस्याः ? ब्राह्मणः -- अद्य प्रातरेकेन केनापि वैदेशिकेन राजकुले तत् किमपि प्रकाशितं येन सा चितामधिरोदुमध्यवसिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154