________________
१२० ]
नलविलासे
॥
इतः प्रारभ्यन्ते निचितचितयः पश्य भृतकैः प्रयाति प्रत्याशं विषमतमतूर्यध्वनिरितः । द्विजन्मानोऽप्येते निधनधनविच्छेदचकिताः ससंरम्भं धावन्त्यपरिचितशूकास्तत इतः ॥ नलः - देव ! एतं बृद्धब्राह्मणं पृच्छामि । (ततः प्रविशति गृहीतयष्टिर्गमनाकुलचेता वृद्धो ब्राह्मणः ) ( उपसृत्योच्चैः स्वरम् ) आर्यार्य ! ब्राह्मण: - नियोजयतु यजमानः ।
नलः – वैदेशिकत्वादनभिज्ञोऽस्मि वृत्तान्तस्य तत् कथय किमिदमतितरां करुणम् ?
ब्राह्मण: --- महाभाग ! किं कथयामि मन्दभाग्यः १ अकाण्डक्रोधसंरुद्धचेतसा वेधसा सर्व संहारः प्रारब्धोऽद्य विदर्भपतिकुटुम्बस्य |
राजा - कथमिव
ब्राह्मणः प्राणेभ्योऽपि प्रिया विदर्भभतु रेकैव पुत्री ।
नलः - (स्वगतम् ) तत् किं देवी विपन्ना ? अतः परमपि विधिर्विकार किं किमपि दर्शयिष्यति ? ( प्रकाशम् ) तत् कि तस्याः ?
ब्राह्मणः -- अद्य प्रातरेकेन केनापि वैदेशिकेन राजकुले तत् किमपि प्रकाशितं येन सा चितामधिरोदुमध्यवसिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org