SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽङ्कः [ १२१ पश्य पुरः पुरस्यादवीयसि देशे निकषा सहकारतरुखण्ड तस्याश्चितिर्वर्तते । अपरास्वप्येतासु तिसृषु तस्या एव परिकरलोकः प्रवेक्ष्यति । तदनुजानीहि मां प्राणात्ययसमयप्रवर्त्यमानदानप्रतिग्रहणाथेमुपगन्तुम् । राजा-(सविचिकित्समात्मगतम्) अहो! सर्वातिशायी द्विजन्मनां निसर्गसिद्धो लोभातिरेको यदयमन्त्येऽपि वयसि वृथा वृद्धो निधनधनप्रतिमहान विरमति । नल:-व्रजस्व सिद्धये । ब्राह्मण:-स्वस्ति महाभागाय (इत्यभिधाय मन्दं मन्दं निष्क्रान्तः) राजा बाहुक ! विप्रलब्धाः केनापि वयं स्वयंवरसमाहानेन । तद् यावत् कोऽप्यस्मानुपलक्षयति तावदित एव स्थानानिवर्तय पताकिनम् । नल:--देव ! क्षणमस्मिन्नेव स्थाने श्रमोऽतिवाह्यताम् , यावदहमग्रतो गत्वा सम्यग् निर्णयामि । (राजा तथा करोति) (परिक्रम्य विलोक्य) कथमियं देवी प्राणपरित्यागसमयोचितनेपथ्या चिताभ्यणे कपिञ्जलया सह वर्तते ! अयमपि कलहंसोऽसावपि खरमुख इयमपि मकरिका । (ततः प्रविशन्ति यथानिर्दिष्टाः सर्वे) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy