Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
षष्ठोऽङ्कः
[११७
नल:-(ससम्भ्रमम् ) सा खलु दमयन्ती।।
भद्र:-ततस्तस्याः प्रातः स्वयंवरविधि विदर्भाधिपतिविधास्यति ।
नल:- (स्वगतम् ) अहो ! धर्मविप्लवः। (पुनः सरोषम् ) आः! कृतान्तकटाक्षितो मयि प्राणति दमयन्तों कः परिणेष्यति ?
राजा-ततः किम् ?
भद्रः--तथा कथश्चन प्रयतितव्यं यथा श्वः स्वयंवरमण्डपमयोध्याधिपतिरलङ्करोति । :
राजा-भद्र ! शतयोजनप्रमाणमध्वानं किमेकयैव त्रियामया वयं लवयितुमलम्भूष्णवः ?
नल:--(स्वगतम् ) अहं तत्र गत्वा धर्मविप्लवं निवारयामि । (प्रकाशम) देव ! मा भैषीः, अहं ते सर्व समञ्जसमाधास्यामि।
__राजा-भद्र ! 'एते वयमागता एव' इति निवेदय विदर्भाधिपतेः ।
भद्रः-यथादिशति देवः (इत्यभिधाय निष्क्रान्तः)
राजा-(ऊर्ध्वमवलोक्य) कथमस्तं गतो गभस्तीनामधिपतिः १ कथारसास्वादोपहतचेतोभिरस्याभिः सन्ध्याविधिरप्यतिलविन्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154