Book Title: Nalvilasnatakam
Author(s): Ramchandrasuri, Vijayendrasuri
Publisher: Harshpushpamrut Jain Granthmala
________________
११४]
नलविलासे
नल:-( स्वगतम् ) दिष्टया स्वयमेव प्रतिनिवृत्तमरिष्टम् । तदहमतः परमुत्थाय नाट्यं निवारयामि । येन मे पुनर्देवीविनिपातदर्शनं न भवति ।
( ससंरम्भमुत्थाय साक्षेपम् ) अपारे कान्तारे व्यसनशतकीणे प्रतिदिशं ।
कियत्कृत्वः सत्वं स्फुरति भृशमस्याः फलति च । नटा ! नाट्य हहो ! तदिह खलु कृत्वोपरमत
यतो द्रष्टुं स्त्रीणां वधविधिमयोग्याः क्षितिभुजः ॥२२॥ - सपर्ण:--(विहस्य ) बाहुक ! किमिदं पुनः पुनरात्मनो विस्मरणम्। कथं नाट्यमपि साक्षात् प्रतिपद्यसे १ तद् यथास्थानमुपविश।
दमयन्ती- 'कचं एदिणा विन मे दुक्खमोक्खो कदो ! ता एयम्मि सहयारे अत्ताणं उब्बंधिय वावाएमि । (दिशोऽवलोक्य ) हा अजउत्त ! एसा तए निकारणनिकरुजण परिच्चत्ता असरणा दमयन्ती विवजदि। अंबाओ वणदेव
१. कथमेतेनापि न मे दुःखमोक्षः कृतः ! तदेतस्मिन् सहकार
आत्मानमुद्बध्य व्यापादयामि । हा! आर्यपुत्र ! एषा त्वया निष्कारणनिष्करुणेन परित्यक्ताऽशरणा दमयन्ती विपद्यते । अम्बा वनदेवताः ! कथयतार्यपुत्रायैतन्मम व्यवसितम् । हा ! अम्ब पुष्पवति ! हा! तात भीमरथ ! कुत्रासि ? देहि में प्रतिवचनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154