SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पंचमोऽङ्कः पञ्चमोऽङ्कः। (ततः प्रविशति कलहंसः) कलहंसः-(सविषादम् ) अहो ! विकटस्य संसारनाटकस्य परस्परविरुद्धरससमावेशधैरस्यम् ! शृङ्गाराद्भुतरसनिस्यन्दसुन्दरः क नाम स स्वयंवरविवाहमहोत्सवाडम्बरः, क्व चैष परमकरुणरसप्रावीण्यप्रणयपिच्छिलो दुरोदरप्रवर्तितो दमयन्तीमात्रपरिकरस्य देवस्य निषधाविपतेः प्रवासवैशसोपप्लवः ! अहह ! किमिदमनार्योंचितं कम समाचरितमिन्दुकुलकृतावतारेणापि देवेन ! अपि खलु पामरप्रकृतयोऽपि दुरोदरकमणो दुर्विपाकमाकलयन्ति, किं पुनः सर्वकर्माणबुद्धिदेवो निषधाधिपतिः । यदि वा-- कृत्याकृत्यविदोऽपि धर्ममनसोऽप्यन्यायतो विभ्यतोऽप्यश्लाघ्यं पुरुषस्य देववशतस्तत् किश्चिदुज्जम्भते । माहात्म्यं विभवः कला गुणगणः कीर्तिः कुलं विक्रमः सर्वाण्येकपदेऽपि येन परितो भ्रश्यन्ति मूलादपि ॥१॥ न चैतदनात्मनीनमेव कर्म समाचरितं देवेन, किमुतासर्वजनीनम् । न नाम सैंहिकेयोपरागे सवितैव केवलं क्लाम्यति, किन्तु तदधीनाशेषव्यवहारविशेषमखिलमपि काश्यपीवलयम् । किं नु पुरोहितप्रभृतिपौरलोकः शोकाकुलो द्यूत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy