SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८४ ] नलविलासे कर्म निवारणाय प्रवृत्तः सकलराज्यदमयन्तीपणेन दीव्यता देवेन समावधीरितस्तदपि न सतां चेतश्चमत्कारकारि । यतः तावन्मतिः स्फुरति नीतिपथाध्वनीना तावत् परोक्तमपि पश्यतया विभाति । यावत् पुराकृतमकर्म न सर्वपर्व - प्रत्यूहकारि परिपाकमुपैति जन्तोः ॥ २ ॥ अपि च स्फुरन्त्युपायाः शान्त्यर्थमनुकूले विधातरि । प्रतिकूले पुनर्यान्ति तेऽप्युपाया अपायताम् ॥ ३ ॥ सर्वथा विधिरेवात्र कर्मण्यलङ्कर्मणतामगतम् । अथवा दुरोदरचातुरीविनिषधाधिपतिं विजेतुं कथमलम्भूष्णुरेष कूचरः ? खलु कृत्वाऽतीतशोचनम् । क एकः किल विधिविलसितविपाको मीमांस्यते । श्रुतं च मया यथा खरमुख - मकरिके अपि पुरिपरिसरारामवर्तिनो दमयन्तीसचिवस्य देवस्यान्तिकमधितिष्ठतः । तदहमपि गच्छामि । ( इति परिक्रामति । विलोक्य) किमयं देवः क्षोणीपत्यपथ्यपथिक नेपथ्यपङ्किलस्तिलकतरुतले निविष्टस्तिष्ठति ? ( सास्रम् ) कथमहमेतस्य दुरवस्था पातिनः स्वामिनः स्वमास्यं दर्शयामि ? तदित एव स्थानात् प्रतिनिवर्ते । यदि वा प्रवसन्तं स्वामिनमालप्य पावकप्रवेशेन निरन्तरभक्तिसमुचितमाचरामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy