SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पंचमोऽङ्कः (ततः प्रविशति राजा, दमयन्त्यादिकश्च परिवार : ) राजा - ( सावष्टम्भम् ) देवि ! मा रोदी: प्रशस्तलक्षणा भवती । न खलु ते पतिरभूत्वा भूपतिर्विश्राम्यति । व्यसनोपपातश्चायमनागतायाः सम्पदः पदम् । उभयाभिमुख्यभाजां सम्पत्त्यर्थं विपत्तयः पुंसाम् । ज्वलितानले प्रपातः कनकस्य हि तेजसो वृद्धयै ॥ ४ ॥ ( दमयन्ती मन्दं मन्दं रोदिति ) विदूषकः - ( विलोक्य) 'भट्टा ! कलहंसो पणमदि । राजा - ( सखेदम् ) खरमुख ! भर्तेति पदमन्यत्र सङ्क्रान्तम्, तदिदानीं नलेत्येवमामन्त्रणपदमहमि । प्रणमतीत्यप्यवस्थाविरुद्धमनुच्चारणीयम् । कलहंसः समायातोऽस्ती त्येवमेव रमणीयम् । ( कलहंसः प्रणम्य सास्र मधोमुखस्तिष्ठति ) राजा - ( कलहंसं प्रति ) मा विषीद कृतं वाष्पैः फलं मर्पय कर्मणाम् । सत्यं विषाद- शोकाभ्यां न दैवं परिवर्तते ॥ ५ ॥ कलहंसः - ( वाष्पमवधूय ) देव ! सुमहान् मानभङ्गः कृतः कूबरेण । राजा - ( साक्षेपम् ) न कूबरेण कृतः किन्तु वेधसा । १. भर्त: ! कलहंसः प्रणमति । [ ८५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy