________________
८६]
नलविलासे अहंयूनामहङ्कारं वारिदानां समुन्नतिम् । विना विधिमृते वातं हन्तु को नाम कर्मठः ॥ ६॥
कलहंसः-(प्रणम्य) अनुयानाय मामनुजानातु देवो विदृषकमपि ।
राजा-देवीमपि मुमुक्षरहं परमियमबलाऽऽग्रहण मामनुगच्छति । अपि च सर्वस्वपणेन मां कूबरो जितवान् । ततः पथि पथिकवृत्त्यैव गन्तुमुचितम् । तदनुजानीतास्मान् देशान्तरगमनाय । श्लथयत स्नेहबन्धनम् । कुरुत निदयं हृदयम् । न क्षमामहे राज्यभ्रंशधूसरं परिचितपौराणामास्यं दर्शयितुम् । बजामः कामयेको दिशम् । (अग्रतः कृत्वा) देवि ! दुर्विषहवातशीतातपक्लेशकारीणि प्रान्तराणि । राज्यभ्र शेन विगतपरिच्छदवाहना वयम् । न शक्ष्यति भवती क्रमितुमशिक्षितपादचारा करालव्यालशैलसङ्कटासु वनभूमिषु । तद् विधेहि मे वचनमवलम्बस्व दीघदर्शितामिहैव कूबरान्तिके तिष्ठ पितृगृहं वा ब्रज। (सर्वे तारस्वरं रुदन्ति) किमेतेन प्राकृतप्रकृतिसब्रह्मचारिणा चेष्टितेन ? ननु धैर्यमवलम्ब्य समयोचितमाचरत ।
दमयन्ती- 'अज्जउत्त ! अहं इध ज्जेव चिट्ठिस्सं । पाणा उण अज्जउत्तेण समं आगमिस्संति । १. आर्यपुत्र ! अहमि हैव स्थास्यामि । प्राणा: पुनरार्यपुत्रेण सम
मागमिष्यन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org