Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मृगावती
॥ १४६ ॥
सा व्यज्ञप्यत सादरं । क्लेशोऽयमादृतो देवि, सर्वो मद्वयसा त्वया ॥२२॥ कल्याणि फलितः सोऽय, राज्यस्य पुनराप्तितः । तद्देवस्य स्वसंगेन, राज्यलक्ष्मीं कृतार्थय ॥ २३ ॥ ततः प्रयोतजा देवी, बद्धरोषाऽवभाषत । पर्याप्तं प्रश्रयालाप - प्रलापैरेभिरार्य मे ॥ २४ ॥ अपकृत्येति नीतिज्ञ, यदियं विनयक्रिया । तदिदं नासिकां लूत्वा, दुकूलेन प्रमार्जनं ॥ २५ ॥ पद्मावतीमिमां यत्ता - सपलीं मम कुर्वता । साधु साधु त्वयामात्य, कृते प्रतिकृतं कृतं ॥ २६ ॥ शंकरायाः प्रयोगो हि नियतं त्वन्निबंधन: । यदीदृशेषु कार्येषु नान्यस्य क्रमते मतिः ॥ २७ ॥ ममैतत्तु दिवानक्त - मंतः प्रथयति व्यथां । अभूवमार्यपुलस्य, यदहं क्लेशहेतवे ॥ २८ ॥ अयं हि कंटकाकीर्णा - मरण्यानीमशिश्रयत् । मत्कृते च क्षुधोदन्या-भवमन्वभवरमं ॥ २९ ॥ त्वदीयवचसा राज्यं त्यजंत्यां मयि सर्वथा । अगाधे व्यसनांभोधी, प्रेमसज्जो ममज्ज सः ||३०|| तदेषाहमनेकेषां दुःखानामस्य कारणं । सांप्रतं प्रोषि - तेष्वेषु, सिद्धं मे पुनरीप्सितं ॥ ३१ ॥ इदानीं यदसौ जज्ञे, राज्यलक्ष्मीस्वयंवरः । पद्मावतीनवप्रेमां - भोरुहभ्रमरायितः ॥ ३२ ॥ प्रपद्यंते यतः पत्यु – दुःखे दुःखं सुखे सुखं । सहोदयव्यथाः शश्व
चरित्रम्
॥ १४६ ॥

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172