Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
ना१५३॥
20000
मृगावती/सचिवो व्याहरदेव, त्वत्कृतादपमानतः । देवी वासवदत्तेयं, चितावहौ विपद्यते ॥ १०० ॥ अभाषत
| ससंरंभ, भूपश्चित्रमहो महत् । कथं पूर्व विपन्नापि, पुनर्देवी विपद्यते ॥१॥ द्रुतमेत्य स्वयं देवीं, दृष्ट्वा कुरु यथोचितं । इत्युक्तो मंत्रिणा भूपः, प्रत्यावृत्तश्चितांतिके ॥ २॥ तत्र प्रत्यक्षमद्राक्षोन्नृपः प्रद्योतजां स्वयं । चिंतयंती किमप्यंतः, पद्मावत्या समन्वितां ॥ ३ ॥ इयं वासवदत्तेति, नृपतिनिश्चिकाय तां । प्रत्यक्षाद्धि परं नास्ति, संदेहानामपोहकं ॥ ४ ॥ अथाललाप भूपालः, प्रेयसी तां प्रियोक्तिभिः । दृशं प्रद्योतजे देवि, देहि देह्याकुले मयि ॥ ५॥ कश्चिद्यश्चापमानस्ते, मया देवि प्रदर्शितः । सोऽपि वल्लाभलोभेन, प्रिये न पुनरन्यथा ॥ ६॥ निमेषमपि वामाक्षि, मम चेदसि विस्मृता । एतास्तदा सदाक्षिण्ये, साक्षिण्यः कुलदेवताः ॥ ७॥ तत्प्रसीद प्रिये मां, चिंतया | कृतमेतया । सत्योऽस्तु गोमुखो यक्ष-स्तपोऽप्यस्तु फलेग्रहि ॥८॥ इत्युक्त्वा विरते राज्ञि, धूमोर्मों | च भिदेलिमे । प्रत्यभिज्ञाकृते पत्यु-देवो व्यापारयद् दृशं ॥ ९ ॥ दृष्टिर्वासवदत्तायाः, प्रोत्या प्रत्य- 10
॥१५३॥ | भिजानती । रमणस्यांगरंगांतः, खेलतिस्म यदृच्छया ॥ १०॥ निर्णीय परिणेतारं, स्मृत्वा पद्मावती- JAI"

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172